This page has not been fully proofread.

काव्यमाला ।
 
ण्डकपिटकतालकफलककल्कपुलाकानि नपुंसके च' इति पाणिनिलिङ्गानुशासनात्कण्ट-

कशब्दो नपुंसकः । को भवति । सुधायामरुचिः कस्योदेति । न कस्यापीत्यर्थः । एवं

चैतादृश्याः कथं मया निन्दा विधेयेति व्यज्यते ॥
 

 
संकेते गत्वा तत्र नायिकामप्राप्य गतं मया तत्रेति ज्ञापनाय चूताङ्कुरमादाय नायि-

कादृग्विषयं नायकं प्रति नायिकासखी वक्ति -
 
--
 
कोपवति पाणिलीलाचञ्चलचूताङ्कुरे त्वयि भ्रमति ।

करकम्पितकरवाले स्मर इव सा मूर्छिता सुतनुः ॥ १९० ॥

 
कोपवतीति । कोपवति । कथं न समागतेयमिति धियेति भावः । स्मरविशेषणमप्ये-

तत् । पापौ लीलया विलासेन । एवं च लोकान्यथाबुद्धिनिरासकत्वं ध्वन्यते । चञ्चल

आम्राङ्कुरो यस्मिन् । करे कम्पितः । मारणोद्यमादिति भावः । खड्गो येन तस्मिन्स्मर

इव वयि भ्रमति सति। ज्ञापनार्थमिति भावः । सा सुतनुः । एवं चोपेक्षानर्हत्वं ध्वन्यते।

मूर्छिता । एवं चैतस्या अतिदुःखं जातमिति व्यज्यते । तेन चायमपराधः क्षन्तव्य इति ॥

 
कुलवत्याः सुरते गोत्रस्खलनमनुचितं तवेति वादिनीं सखीं नायको वक्ति–
 

 
कौलीन्यादलमेनां भजामि न कुलं स्मरः प्रमाणयति ।
 

तद्भावनेन भजतो मम गोत्रस्खलनमनिवार्यम् ॥ १९१ ॥
 

 
कौलीन्यादिति । अलमत्यर्थ कौलीन्यात्कुलीनत्वात् । 'कौलीनात्' इति पाठे तु कौ-

लीनाल्लोकवादात् । 'स्यात्कौलीनं लोकवादे' इत्यमरः । एनां भजामि । एतस्याः परि-

त्यागेऽत्यन्तलोकनिन्दाभीतिरिति भावः । स्मरः कुलं न प्रमाणयति । एवं च सगुणत्व-

मपेक्षितमिति भावः । तस्या भावनया सेयमिति बुद्ध्या भजतः । एनामिति भावः । मम

नामस्खलनम् । 'गोत्रं नाम्नि कुलेऽपि च' इति विश्वः । निवारयितुमशक्यम्

 
कस्याश्चिन्नायिकायाः पतिमवलोक्य भीतं कंचन नायकं दूती वक्ति-
-
 
कुत इह कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।

तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥ १९२ ॥
 

 
कुत इति । हे कुरङ्गशावक । शावकपदेनाज्ञत्वं व्यज्यते । तेन च भीतियोग्यत्वम् ।

इह केदारे शालिमञ्जरीं कुतस्त्यजसि । नन्वत्रास्ति रक्षक इत्यत्राह-तृणरूपो बाणो यस्य,

तृणरूपधनुष्मान्, तृणविहितो मिथ्यापुरुषः । एवं चाक्षमादस्माद्भीतिमपहाय यथेच्छं

त्वमत्रागच्छेति द्योयते । यद्वा नायं पुरुषः किं तु तद्वेषधारीति भयमपास्य त्वमत्रा-

गच्छेति ॥
 
DF
 

 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशती व्यङ्ग्यार्थदीपनया समेता ककारव्रज्या
 
नेता प्रकारमया
 
Sri Gargeshuviri Digital Foundation
 

---------------------------