This page has not been fully proofread.

बालवनिताचित्तं स्वकरे कर्तुं कृतयत्नवैकल्यखिन्नः कश्चिद्वक्ति--
 
कामेनापि न भेत्तुं किमु हृदयमपारि बालवनितानाम् ।
मूढ विशिखप्रहारोच्छूनमिवाभाति यद्वक्षः ॥ १८६ ॥
 
कामेनेति । बालवनितानां हृदयं कामेनापि । एवं चान्यस्य का वार्तेति भावः । भे-
त्तुम् । किमु वितर्के । नापारि । मूढस्य यद्वा मूढो मन्दो यो बाणप्रहारस्तेनोच्छूनमिव
वक्ष आभाति । अन्यस्यापि धन्विनो मन्दशरप्रहारे लक्ष्यशरीर उच्छूनतामात्रमेव भ-
वति । एवं च मदीययत्नेनैतासां हृदयं न भिद्यत इति न चित्रमित्यावेद्यते ॥
 
कश्चिन्नायिकां वक्ति--
 
किं परजीवैर्दीव्यसि विस्मयमधुराक्षि गच्छ सखि दूरम् ।
अहिमधिचत्वरमुरगग्राही खेलयतु निर्विघ्नः ॥ १८७ ॥
 
किमिति । हे सखि, विस्मयेन । सर्पदर्शन कौतुकजन्येनेत्यर्थः । सुन्दराक्षि । विस्फा-
रितत्वादिति भावः । परस्यान्यस्य प्राणैः किमिति क्रीडसि । दूरं गच्छ । चत्वरमधिकृ-
त्याहितुण्डिको विघ्नहीनोऽहिं खेलयतु । एवं च निखिलजनेषु त्वद्वदनविलोकनासक्तेष्वा-
हितुण्डिकश्रमो निरर्थक एव भवितेति व्यज्यते । यद्वा चत्वरपदेन सर्वजन समाज-
योग्यत्वं ध्वन्यते । दूरं बहुकालं खेलयतु । परस्य संकेतितनायकस्य प्राणैः किमिति की-
डसि । अतो गच्छ । एवं चान्यस्य निर्विघ्नतासंपादने स्वस्यापि तद्भवतीति नियमेनात्र
सकलदुष्टासक्त्या निर्विघ्नतया संकेतितनायकसविधे गन्तव्यम् । विलम्बे तु मदनानल-
संतप्तस्य तस्य प्राणा एव गमिष्यन्तीति दूती नायिकां वक्ति ॥
 
कुपितनायिकाचरणप्रहारखिन्नं नायकं नायिकासखी समाधत्ते--
 
करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी ।
रोषयति परुषवचनैस्तथा तथा प्रेयसीं रसिकः ॥ १८८ ॥
 
करेति । कोपचञ्चलाक्षी करौ च चरणौ च करचरणं तेनाङ्गेषु यथा यथा प्रहरति
तथा तथा क्रोधजनकवाक्यैः प्रेयसीं यः कोपयति स एव रसिकः । एवं च यदि त्वं
रसिकस्तर्होह्येतादृशेऽर्थे कोपविधानमनुचितं तवेति व्यज्यते । अत्र द्वितीयतच्छब्दः 'संचा-
रिणी दीपशिखा-' इत्यादि पद्यवदुचितः ॥
 
निन्दसि त्वं नायिकामिति वादिनीं नायिकासखीं नायको वक्ति--
 
कस्तां निन्दति लुम्पति कः स्मरफलकस्य वर्णकं मुग्धः ।
को भवति रत्नकण्टकममृते कस्यारुचिरुदेति ॥ १८९ ॥
 
कस्तामिति । तां को निन्दति न कोऽपि । मदनपटस्य चित्ररूपाम् । 'वर्णकः' इति
पाठे मदनपटचित्रमित्यर्थः । को मूर्खो लुम्पति । रत्नकण्टको रत्ननिन्दकः । 'कण्टका-
नीकसरकमोदकचषकमस्त कपुस्तकतडा कहाटक निष्कशुष्क वर्चस्कपिनाकभाण्डककटकद-