This page has not been fully proofread.

क्लेशयसि किमिति दूतीर्यदशक्यं सुमुखि तव कटाक्षेण ।
कामोऽपि तत्र सायकमकीर्तिशङ्की न संधत्ते ॥ १८२ ॥
 
क्लेशयसीति । दूतीरिति बहुवचनेन न कापि तत्र युक्तिश्चलतीति व्यज्यते । अकी-
र्तिशङ्की । षण्ढत्वादिति भावः । एवं च कामबाणापेक्षया कटाक्षेऽतिशयो व्यज्यते ॥
 
कश्चिदधरं स्तौति –
 
को वेद मूल्यमक्षद्यूते प्रभुणा पणीकृतस्य विधोः ।
प्रतिविजये यत्प्रतिपणमधरं धरनन्दिनी विदधे ॥ १८३ ॥
 
को वेदेति । प्रभुणेश्वरेण । एवं चानर्घवस्तुसत्त्वं द्योयते । अक्षद्यूते पणीकृतस्य च-
न्द्रस्य मूल्यं को वेद । यस्माद्धरति महीमिति धरः । 'धरपर्वताः' इत्यमरः । तत्त-
नया । एवं च चातुर्यविशेषवत्त्वं ध्वन्यते । प्रतिविजये प्रतिपणमधरं विदधे । एवं चाध-
रसमताप्रदर्शनेन चन्द्रेऽधिकत्वं न वास्तवमित्यधरामृतेऽधिकत्वं ध्वन्यते ॥
 
'मुञ्च मामू, नो चेत्ताडयामि चरणेन' इति वादिनीं कुपितनायिकां नायको वक्ति--
 
कुपितां चरणप्रहरणभयेन मुञ्चामि न खलु चण्डि त्वाम् ।
अलिरनिलचपलकिसलयताडनसहनो लतां भजते ॥ १८४ ॥
 
कुपितामिति । हे निरर्थककोपने, चरणप्रहरणभयेण कुपितां त्वां न मुञ्चामि। यतो वायु-
चपलपल्लवताडनसहोऽलिर्लतां भजते । अलिरिति स्वस्मिन्नलितुल्यत्वप्रतिपादनेनानन्य-
गतिकत्वं द्योत्यते । कोपेऽनिलतुल्यत्वप्रतिपादनेन चञ्चलत्वमावेद्यते । चरणे किस-
लयतुल्यत्वप्रतिपादनेन कोमलत्वं तेन च दुःखाजनकत्वं ध्वन्यते । यद्वा मन्मथशस्त्ररू-
पत्वं तेन च तत्संबन्धेनोन्मत्ततया वेदनानभिज्ञत्वं स्वस्मिन् व्यज्यते ॥
 
कथमनेन विलम्बितमिति कुपितां नायकेन च खास्वापराधक्षमापनाय विहितप्रसादां ना-
यिकां सखी वक्ति--
 
कोपाकृष्टभ्रूस्मरशरासने संवृणु प्रिये पततः ।
छिन्नज्यामधुपानिव कज्जलमलिनाश्रुजलबिन्दून् ॥ १८५ ॥
 
कोपेति । प्रिये नायकविषये कोपेनाकृष्टम् । एवं च ज्याभङ्गो युक्त इति व्यज्यते ।
भ्रूरूपं स्मरशरासनं यया तत्संबुद्धिः । छिन्ना या ज्या तन्मधुपानिव । स्मरधनुर्ज्या
भ्रमररूपेति प्रसिद्धिः । पततः कज्जलमलिनाश्रुजलबिन्दून् संवृणु । एवं च नायकप्रण-
त्युत्तरकालं कोपविधानमनुचितमिति व्यज्यते । यद्वा संवृण्वित्यनेन कोपप्रदर्शनाव्यवहितमेव
तत्परित्यागोऽनुचित इत्यावेद्यते । यद्वा छिन्नज्यात्वनिरूपणेन यद्यधुनापि कोपं करिष्यसि
तर्हि कुपितो नायकः केनापि समाहितुमशक्य इति भीतिरावेद्यते । अत्र जलपदमा-
धिक्यं द्योतयति ॥