This page has not been fully proofread.

काव्यमाला ।
 
क्लेशयसि किमिति दूतीर्यदशक्यं सुमुखि तव कटाक्षेण ।

कामोऽपि तत्र सायकमकीर्तिशङ्की न संधत्ते ॥ १८२ ॥
 

 
क्लेशयसीति । दूतीरिति बहुवचनेन न कापि तत्र युक्तिश्चलतीति व्यज्यते । अकी-

तिशङ्की । षण्ढत्वादिति भावः । एवं च कामबाणापेक्षया कटाक्षेऽतिशयो व्यज्यते ॥

 
कश्चिदधरं स्तौति –
 

 
को वेद मूल्यमक्षद्यूते प्रभुणा पणीकृतस्य विधोः ।
 

प्रतिविजये यत्प्रतिपणमधरं धरनन्दिनी विधे ॥ १८३ ॥

 
को वेदेति । प्रभुणेश्वरेण । एवं चानर्धवस्तुसत्त्वं द्योयते । अक्षद्यूते पणीकृतस्य च

न्द्रस्य मूल्यं को वेद । यस्माद्धरति महीमिति धरः । 'धरपर्वताः' इत्यमरः । तत्त-

नया । एवं च चातुर्यविशेषवत्त्वं ध्वन्यते । प्रतिविजये प्रतिपणमधरं विदधे । एवं चाध-

रसमताप्रदर्शनेन चन्द्रेऽधिकत्वं न वास्तवमित्यधरामृतेऽधिकत्वं ध्वन्यते ॥
 

 
'मुञ्च मामू, नो चेत्ताडयामि चरणेन' इति वादिनीं कुपितनायिकां नायको वक्ति-
-
 
कुपितां चरणप्रहरणभयेन मुञ्चामि न खलु चण्डि त्वाम् ।

अलिरनिलचपलकिसलयताडनसहनो लतां भजते ॥ १८४ ॥
 

 
कुपितामिति । हे निरर्थककोपने, चरणप्रहरणभयेण कुपितां त्वां न मुश्वामि। यतो वायु-

चपलपल्लवताडनसहोऽलिलेतां भजते । अलिरिति स्वस्मिन्नलितुल्यत्वप्रतिपादनेनानन्य-

गतिकत्वं द्योत्यते । कोपेऽनिलतुल्यत्वप्रतिपादनेन चञ्चलत्वमावेद्यते । चरणे किस-

लयतुल्यत्वप्रतिपादनेन कोमलत्वं तेन च दुःखाजनकत्वं ध्वन्यते । यद्वा मन्मथशस्त्ररू-

पत्वं तेन च तत्संबन्धेनोन्मत्ततया वेदनानभिज्ञत्वं खस्मिन्व्यज्यते ॥
 

 
कथमनेन विलम्बितमिति कुपितां नायकेन च खापराधक्षमापनाय विहितप्रसादां ना-

यिकां सखी वक्ति-
-
 
कोपाकृष्टभ्रूस्मरशरासने संवृणु प्रिये पततः ।
 

छिन्नज्यामधुपानिव कज्जलमलिनाश्रुजलबिन्दून् ॥ १८५ ॥
 

 
कोपेति । प्रिये नायकविषये कोपेनाकृष्टम् । एवं च ज्याभङ्गो युक्त इति व्यज्यते ।

भ्रूरूपं स्मरशरासनं यया तत्संबुद्धिः । छिन्ना या ज्या तन्मधुपानिव । स्मरधनुर्ज्या

भ्रमररूपेति प्रसिद्धिः । पततः कजलमलिनाश्रुजलबिन्दून्संवृणु । एवं च नायकप्रण-

त्युत्तरकालं कोपविधानमनुचितमिति व्यज्यते । यद्वा संवृण्वित्यनेन कोपप्रदर्शनाव्यवहितमेव
 

तत्परित्यागोऽनुचित इत्यावेद्यते । यद्वा छिन्नज्यात्वनिरूपणेन यद्यधुनापि कोपं
करिष्यसि
तर्हि कुपितो नायकः केनापि समाहितुमशक्य इति भीतिरावेद्यते । अत्र
धिक्यं द्योतयति ॥
 
S
 
करिष्यसि
जलपदमा-
Sri Gurgeshwari Digital Foundation
 

धिक्यं द्योतयति ॥