This page has been fully proofread once and needs a second look.

मदादभिमानात् स्वयंवरेण श्रियम् । एवं चात्यन्तस्पृहणीयत्वं व्यज्यते । इच्छति । एवं
च शारीरबुद्धिबलसत्त्वेऽपि विष्णुना लक्ष्मीपाणिग्रहणाय न बलात्कारः कृतः । अतस्त्वया
नैतादृक्कर्म कर्तव्यमिति ध्वन्यते । यद्वा त्वयि सुभगत्वेऽवश्यं सा त्वामेव वरिष्यति, अन्यथा
बलाद्धृतेति न तत्प्रीतिरिति ध्वन्यते ॥
 
एतेषु वैदेशिकेषु स्थायिभ्रमेण विहिता त्वया संगतिः, तव सा न सुखदेति काचित् काञ्चित् प्रति वक्ति--
 
किं पुत्रि गण्डशैलभ्रमेण नवनीरदेषु निद्रासि ।
अनुभव चपलाविलसितगर्जितदेशान्तरभ्रान्तीः ॥ १७९ ॥
 
किमिति । हे पुत्रि । एवं चोपदेशार्हत्वं ध्वन्यते । गण्डशैलानां भ्रमेण । 'गण्डरौ-
लास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । नूतनमेघेषु । नीरदपदेनेदं देयमिदं देयमिति
संकल्पमात्रकारित्वं व्यज्यते । तेन च न ततोऽर्थप्राप्तिरपीति । निद्रासि । एवं चातिवि-
श्वस्तत्वं व्यज्यते । चपलायास्तडितो विलसितानि, गर्जितानि च, देशान्तरभ्रमणानि
चानुभव । एवं चैतत्संगत्या सपत्नीवैभवतर्जनदिगन्तगमनादिदुःखमवश्यं भावीति
व्यज्यते ॥
 
नायिकासखी नायकसखीं वक्ति--
 
कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ ।
सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किम् ॥ १८० ॥
 
कान्त इति । कान्तश्चरणेन हत इति सरलाम् । एवं च भवच्छाठ्यानभिज्ञेयत्व-
मिति ध्वन्यते । अपराध्य । सापराधां विधायेत्यर्थः । किं प्रसादयथ । सोऽपि प्रहार-
रूपः प्रसादः, एवमेव किं सुलभः । एवं च मानिन्यानया क्रोधात् पादाहते नायके भवती-
भीरियमनुचितकार्यकारिणी त्वमिति त्रासयित्वा प्रसादना क्रियते । परं त्वेतत्पदप्रहारो-
ऽप्येतस्यातिदुर्लभ इति नायिकाधिक्यं द्योत्यते ॥
 
किमिति नायको नानीयते भवतीभिरिति दूतीषु वादिनीं नायिकां सखी द्वाभ्यां वक्ति--
 
कर्णगतेयममोघा दृष्टिस्तव शक्तिरिन्द्रदत्ता च ।
सा नासादितविजया क्वचिदपि नापार्थपतितेयम् ॥ १८१ ॥
 
कर्णगतेयमिति । या कर्णविशाला, कर्णहस्तगता च । सफला । पक्षेऽमोघेति
शक्तिनाम । इन्द्रेण परमेश्वरेण । पक्षे पुरंदरेण । दत्ता । आसादितो विशिष्टानां जयो
यया । न विद्यत आसादितविजयो यस्याः सकाशात् । एवं चेयमेव विशिष्टजयकर्त्री-
त्यर्थः । पक्षेऽप्राप्तार्जुना । यद्वासादितो विजयो यस्याः । एतज्जयकारिणी ना-
न्येति भावः । इयं तव दृष्टिः शक्तिश्च क्वचिदप्यपगतोऽर्थो यस्याः । षण्ढेत्यर्थः ।
पतिता नेति न इति काकुः । पक्षेऽर्जुनभिन्ने घटोत्कचे पतिता नेति न । एवं च
यस्त्वत्कटाक्षमात्रेण न वश्यः स पुरुष एव नेति द्योत्यते ॥