2023-03-13 16:09:45 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
किमिति । रिष्टो दैत्यः । एवं च भूतार्थाभिनयोऽयं न त्वन्यदपूर्वं किञ्चिदिति व्यज्यते ॥
कातरताकेकरितस्मरलज्जारोषमसृणमधुराक्षी ।
मोक्तुं न मोक्तुमथवा वलतेऽसावर्थलव्धरतिः ॥ १७५ ॥
कातरतेति । कातरता भीतिस्तया केकरिते वक्रीकृते स्मरलज्जारोषैर्मसृणमधुरे
स्निग्धसुन्दरे अक्षिणी यस्याः । मोक्तुमथवा न मोक्तुम् । नायकमिति भावः । अर्धं
लब्धा रती रतं ययासौ वलत उद्युक्ता भवति । जातिवर्णनमेतत् ॥
केचिद्दूरादागताः, परं तु नात्र तेषां तत्फलमिति कश्चिदन्योक्त्या वक्ति--
केतकगर्भे गन्धादरेण दूरादमी द्रुतमुपेताः ।
मदनस्यन्दनवाजिन इव मधुपा धूलिमाददते ॥ १७६ ॥
केतकेति । केतकपुष्पस्य मध्ये गन्धस्यादरेण लोभेन द्रुतं दूरात् । एवं च श्रमा-
तिशयो व्यज्यते । उपेताः । गन्धस्यादरो यस्य तेन । वायुनेत्यर्थः । द्रुतं दूरादुपेता
मदनरथाश्वा इव । एवं च भारवहनसमर्थत्वं व्यज्यते । तेन चोपमेयेऽतिश्रेष्ठत्वम् । म-
धुपाः। एवं च तदेकजीवनोपायशालित्वं ध्वन्यते । धूलिमाददते । एवं चैतादृशानां की-
र्तिश्रवणादागतानामत्रैतादृशी गतिरित्यनुचितमिति व्यज्यते । पक्षे रथोद्धतरजःसंब-
न्धाद्धूलिमत्तेति भावः । यद्वा सामान्यवनितां सखी वक्ति--हे केतकगर्भे । अतिगौरा-
ङ्गीत्यर्थः । कीर्त्यादरेण दूराच्छीघ्रमागताः । एवं चात्रत्यानां कालान्तरेऽपि समाधातुं श-
क्यत्वमावेद्यते । मदनरथाश्वा इव । एवं च मदनोऽपि सौन्दर्याद्यनेकगुणवतामेतेषामेव
बलेन जगज्जयं करोतीति व्यज्यते । तेन चैतादृशदुर्लभा इति । मधुपा मद्यपाः । एवं
चोन्मादवत्तया द्रव्यव्ययक्लेशशून्यत्वं ध्वन्यते । धूलिम् । अर्थात्त्वच्चरणसंबन्धिनीम् ।
आददते । एवं चैतेन नायका अवश्यमनुग्राह्या इति ध्वन्यते ॥
मूर्खनिबद्धान्तःकरणत्वान्नैताश्चातुर्यादिगुणभाजनमिति कश्चिदन्योक्त्या वक्ति--
को वक्रिमा गुणाः के का कान्तिः शिशिरकिरणलेखानाम् ।
अन्तः प्रविश्य यासामाक्रान्तं पशुविशेषेण ॥ १७७ ॥
क इति । वक्रिमा वक्रत्वं कः, गुणाः के, कान्तिः का, चन्द्रलेखानाम् । शिशिर-
किरणपदेन तदधिपमान्द्यमावेद्यते । प्रविश्य यासामन्तरभ्यन्तरं पशुविशेषेण । अति-
जडेनेति भावः । आक्रान्तम् । एवं चैतासां चातुर्यादि सर्वं मिथ्यैवेति व्यज्यते ॥
बलादियं कन्या मया परिणेयेति वादिनं कश्चिद्दृष्टान्तव्याजेन वारयति--
कृतविविधमथनयत्नः पराभवाय प्रभुः सुरासुरयोः ।
इच्छति सौभाग्यमदात् स्वयंवरेण श्रियं विष्णुः ॥ १७८ ॥
कृतेति । कृतो विविधमथने यत्नो येन सः । मथनमर्थात्समुद्रस्य । विविधपदेन
बुद्धिविशेषशालित्वं व्यज्यते । देवदानवयोः पराजयाय प्रभुः समर्थो विष्णुः सौभाग्यस्य