This page has been fully proofread once and needs a second look.

वस्तुतस्तु रागोद्रेकशालीत्यर्थः । यद्वैतादृशो यस्तथाविधं नायिकावदनं चुम्बति स
एव धन्य इत्यर्थः । यद्वा मया कोपः प्रदर्शनीयः, त्वया तु प्रियो मयि बलात्काराय प्रे-
रणीय इति शिक्षिता सखी नायकं वक्ति । एवं च कोपवत्यामपि नायिकायां प्रीतिशा-
लिना नायकेन तत्कृतकरतर्जनाद्यवगणय्य बलात्कारः क्रियत एव, अतस्त्वया भीति-
मुत्सृज्य स्वेच्छाचारो विधेय इति ध्वन्यत इत्यर्थः ॥
 
नायकचाञ्चल्यखिन्नां नायिकां सखी समाधत्ते--
 
कुरुतां चापलमधुना कलयतु सुरसासि यादृशी तदपि ।
सुन्दरि हरीतकीमनु परिपीता वारिधारेव ॥ १७१ ॥
 
कुरुतामिति । हे सुन्दरि, अधुना नायकश्चापलमितस्ततो विलोकनादि कुरुताम् । न
निवारणीय इति भावः । यतो यत्प्रकारिका त्वं सुरसासि तदपि जानातु । केव । हरी-
तकीमनु परिपीता जलधारेव । एवं च यथा तिक्तकटुकादिरसशालिहरीतकीस्वादो-
त्तरं जलधारा मृष्टतमा भवति, तथा त्वमन्यगुणहीन नायिकारसास्वादोत्तरमत्यन्तसु-
खदा भविष्यसीति व्यज्यते । अत एवासम्यग्वस्तुदर्शनोत्तरं सम्यग्वस्तुदर्शनेन सुखम्,
न तेन विना तथेति लोकप्रसिद्धिः ॥
 
शृङ्गाररचनार्थं कृताभ्यङ्गां साधारणवनितां सखी वक्ति--
 
कज्जलतिलककलङ्कितमुखचन्द्रे गलितसलिलकणकेशि ।
नवविरहदहनतूलो जीवयितव्यस्त्वया कतमः ॥ १७२ ॥
 
कज्जलेति । हे कज्जलतिलकेन । दृग्दोषनिवारणार्थं कृतेनेति भावः । कलङ्कितो
मुखचन्द्रो यस्यास्तत्संबुद्धिः । गलितसलिलकणाः केशा यस्यास्तत्संबुद्धिः । नूतनो यो
विरहवह्निस्तस्य तूलरूपस्त्वया कतमो जीवयितव्यः । 'दूनः' इत्यपि पाठः । एवं चै-
तादृशत्वदीयदर्शनेन सर्वेऽपि तात्कालिकविरहवह्निवृतदह्यमाना भविष्यन्ति, तेषु क-
स्त्वयानुग्राह्य इति सुभगत्वं ध्वन्यते ॥
 
स्वस्य दारिद्र्येऽपि महान्तो न दानं परित्यजन्तीति कश्चिद्वति–
 
कृच्छ्रानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः ।
तृणमात्रजीवना अपि करिणो दानद्रवार्द्रकराः ॥ १७३ ॥
 
कृच्छ्रेति । कृच्छ्रानुवृत्तयोऽपि कष्टजीवना अपि महान्तः । एवं च नीचानामन्या-
दृशी गतिरिति भावः । परोपकारम् । दानरूपमित्यर्थः । न त्यजन्ति । तृणमात्रेण जी-
वनं येषां तेऽपि करिणो गजाः, दानं मदः, दानोदकं च तेनार्द्रः करः शुण्डादण्डश्च येषाम् ॥
 
काञ्चन गोपिकामालिङ्ग्य तिष्ठन्तं कृष्णमवलोक्य विस्मयेन समागतान् बालकान् गो-
पीसखी वक्ति--
 
किं हसथ किं प्रधावथ किं जनमाह्वयथ बालका विफलम् ।
तदयं दर्शयति यथा रिष्टः कण्ठेऽमुना जगृहे ॥ १७४ ॥