2023-03-12 05:57:08 by Pathan Vali Khan
This page has not been fully proofread.
नायको मानिनीं वक्ति--
किंचित्कर्कशतामनु रसं प्रदास्यन्निसर्गमधुरं मे ।
इक्षोरिव ते सुन्दरि मानस्य ग्रन्थिरपि काम्यः ॥ १६८ ॥
किंचिदिति । हे सुन्दरि, किंचित्कार्कश्योत्तरम् । एवं चातिकार्कश्याभावो व्यज्यते ।
स्वभावमृष्टं रसं रतिम् । पक्षे द्रवम् । प्रदास्यन् । ते मानस्य, इक्षोरिव ग्रन्थिरपि । दु-
रपनेयाग्रह इति यावत् । किमु वाच्यं मृद्वभिमान इत्यपिना द्योयते । काम्यः । एवं च
मानग्रन्थावपि सुखम्, किमुत तदपगम इति व्यज्यते । तेन चैतादृशावगणनमनुचित मिति
द्योयते । 'मधुरः' इति पाठे ग्रन्थिविशेषणम् ॥
कश्चिदतिरतिप्रवीणो वक्ति--
केन गिरिशस्य दत्ता बुद्धिर्भुजगं जटावनेऽर्पयितुम् ।
येन रतिरभसकान्ताकरचिकुराकर्षणं मुषितम् ॥ १६९ ॥
केनेति । गिरौ शेते तस्य । एवं च नागरिकव्यवहारशून्यत्वं व्यज्यते । तेन यस्य-
कस्यचिद्वचनविश्वासकारित्वम् । भुजगं जटावने । एवं च स्वतो भीषणत्वेऽपि भुजगा-
र्पणेनातिभीषणत्वं ध्वन्यते । अर्पयितुम् । अर्पितपदेन संस्थापनाभावप्रतिपादनेनेतस्ततो
जटासंचारित्वं भुजगे व्यज्यते । तेन चैकदेशस्यापि करस्पर्शायोग्यत्वम् । केन बुद्धिर्दत्ता ।
यद्वा जटानामवनं रक्षणं तत्र । तन्निमित्तमित्यर्थः । एवं च संरक्षणेऽन्ये बहवोऽभ्यु-
पायाः सन्ति, एवं सत्येतादृशायुक्त विचारकथनमप्रामाणिककृत्यमिति व्यज्यते । यद्वा गि-
रिशपदेन भुजगसंस्थापनार्हकं दरादिज्ञानवत्त्वं द्योयते । जटाभिरवने । अवननिमित्तमि-
त्यर्थः । अर्थाद्भुजगस्य । एवं च भुजगे भूषणत्वं ध्वन्यते । एवं च वनपदस्य विपिनार्थ-
कत्वे सर्पस्यावनयोग्यत्वे न तत्करणेनानौचित्यमायातीति दूषणमपास्तम् । येन यया
बुद्ध्या रतिवेगेन यत्कान्तया करेण चिकुराकर्षणं मुषितम् । भुजगभयादिति भावः । एवं
च रतिकालीननायिकाविधीयमान केशाकर्षणमत्यन्तसुखदमिति व्यज्यते । 'चिकुराकर्ष-
रसमुषितः' इति पाठे येन रसमुषितो हरो जात इत्यर्थः ॥
को वा नायिकाप्रणयशालीति वादिनं कश्चिद्वक्ति--
करचरणकाश्ञ्चिहार प्रहारमविचिन्त्य बलगृहीतकचः ।
प्रणयी चुम्बति दयितावदनं स्फुरदधरमरुणाक्षम् ॥ १७० ॥
करेति । करादि प्रहारमविचिन्त्य । नायिकाकृतमित्यर्थः । बलेन । एवं च पीडा
भविष्यतीति ज्ञानविधुरत्वं तेन चात्यन्तरतिनिर्भरत्वं व्यज्यते । गृहीतकचः स्फुरदध-
रम् । निष्ठुरं वक्तुमिति भावः । अरुणाक्षम् । कोपोद्रेकादिति भावः । दयितावदनं
यश्रुचुम्बति । एवं च भीतिशून्यत्वं व्यज्यते । स प्रणयी नायिकानिरूपितप्रेमवान् ।
अन्यथा कोपाद्यवगणय्य बलाच्चुम्बनकरणमसंभावीति भावः । 'नायिकाविषयकप्रेम-
वान् । एवं च प्रहारदुःखमवगणय्य यस्तथा करोति स एव तथेति भावः' इति ऋजवः ।
किंचित्कर्कशतामनु रसं प्रदास्यन्निसर्गमधुरं मे ।
इक्षोरिव ते सुन्दरि मानस्य ग्रन्थिरपि काम्यः ॥ १६८ ॥
किंचिदिति । हे सुन्दरि, किंचित्कार्कश्योत्तरम् । एवं चातिकार्कश्याभावो व्यज्यते ।
स्वभावमृष्टं रसं रतिम् । पक्षे द्रवम् । प्रदास्यन् । ते मानस्य, इक्षोरिव ग्रन्थिरपि । दु-
रपनेयाग्रह इति यावत् । किमु वाच्यं मृद्वभिमान इत्यपिना द्योयते । काम्यः । एवं च
मानग्रन्थावपि सुखम्, किमुत तदपगम इति व्यज्यते । तेन चैतादृशावगणनमनुचित
द्योयते । 'मधुरः' इति पाठे ग्रन्थिविशेषणम् ॥
कश्चिदतिरतिप्रवीणो वक्ति--
केन गिरिशस्य दत्ता बुद्धिर्भुजगं जटावनेऽर्पयितुम् ।
येन रतिरभसकान्ताकरचिकुराकर्षणं मुषितम् ॥ १६९ ॥
केनेति । गिरौ शेते तस्य । एवं च नागरिकव्यवहारशून्यत्वं व्यज्यते । तेन यस्य-
कस्यचिद्वचनविश्वासकारित्वम् । भुजगं जटावने । एवं च स्वतो भीषणत्वेऽपि भुजगा-
र्पणेनातिभीषणत्वं ध्वन्यते । अर्पयितुम् । अर्पितपदेन संस्थापनाभावप्रतिपादनेनेतस्ततो
जटासंचारित्वं भुजगे व्यज्यते । तेन चैकदेशस्यापि करस्पर्शायोग्यत्वम् । केन बुद्धिर्दत्ता ।
यद्वा जटानामवनं रक्षणं तत्र । तन्निमित्तमित्यर्थः । एवं च संरक्षणेऽन्ये बहवोऽभ्यु-
पायाः सन्ति, एवं सत्येतादृशायुक्त
रिशपदेन भुजगसंस्थापनार्हकं दरादिज्ञानवत्त्वं द्योयते । जटाभिरवने । अवननिमित्तमि-
त्यर्थः । अर्थाद्भुजगस्य । एवं च भुजगे भूषणत्वं ध्वन्यते । एवं च वनपदस्य विपिनार्थ-
कत्वे सर्पस्यावनयोग्यत्वे न तत्करणेनानौचित्यमायातीति दूषणमपास्तम् । येन यया
बुद्ध्या रतिवेगेन यत्कान्तया करेण चिकुराकर्षणं मुषितम् । भुजगभयादिति भावः । एवं
च रतिकालीननायिकाविधीयमान
रसमुषितः' इति पाठे येन रसमुषितो हरो जात इत्यर्थः ॥
को वा नायिकाप्रणयशालीति वादिनं कश्चिद्वक्ति--
करचरणका
प्रणयी चुम्बति दयितावदनं स्फुरदधरमरुणाक्षम् ॥ १७० ॥
करेति । करादि प्रहारमविचिन्त्य । नायिकाकृतमित्यर्थः । बलेन । एवं च पीडा
भविष्यतीति ज्ञानविधुरत्वं तेन चात्यन्तरतिनिर्भरत्वं व्यज्यते । गृहीतकचः स्फुरदध-
रम् । निष्ठुरं वक्तुमिति भावः । अरुणाक्षम् । कोपोद्रेकादिति भावः । दयितावदनं
यश्