This page has been fully proofread once and needs a second look.

कूपेति । या विगुणेन रज्जुशून्येन । पक्षे गुणरहितेन । पार्थिवेनापि पृथिवीविकार-
कलशादिनापि । पक्षे राज्ञापि । एवं च धनादिलोभशून्यत्वं नायिकासु व्यज्यते । प्राप्तुं
न शक्यन्ते तासां कूपप्रभवाणाम् । एवं च गम्भीरत्वं तेन च दुष्प्रापत्वं ध्वन्यते । अपां
जलानाम्, पट्टस्य सारिण्या बन्धनम् । पक्षे सर्वाङ्गीणाच्छादकवस्त्ररचनं परमुचितं
मन्ये । यद्वात्यन्तलज्जावत्तयाच्छादनादिकारिणीं कश्चिद्वक्ति--एवं चेतस्ततो द्रव्यादि-
लोभेन गमनादिशालिन्याः किं तव गोपनमिति व्यज्यते ॥
 
खण्डिता नायिका नायकं वक्ति--
 
कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप ।
रविरिव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ॥ १६५ ॥
 
करेति । नखाग्रनिखात बहुतरनखक्षतशालिन्, भ्रान्त्वा । इतस्ततो गत्वेत्यर्थः ।
पक्षे मेरुं प्रदक्षिणीकृत्य । विश्रान्त । क्षणमात्रमिति भावः । रजन्यां दुरवाप । अन्यत्रा-
सक्तत्वादिति भावः । पक्षे मेरोरुत्तरगमनात् । यन्त्रोल्लिखितो रविरिव कृशोऽपि ।
अपिना निस्तेजस्कत्वसमुच्चयः । लोकस्य । न ममेति भावः । लोकपदमनभिज्ञत्वं
ध्वनयति । दृशं हरसि । एवं चैतादृशस्वरूपस्त्वमन्याभ्य एव रोचसे न मह्यमिति
व्यज्यते । सूर्योऽपि तेजोबाहुल्येन वीक्षितुमशक्यस्त्वष्ट्रा यन्त्रोल्लिखितोऽल्पतेजस्कतया
लोकदृग्विषय इति भावः ॥
 
किमिति स्वस्वामिनं न सुखयसीति वादिनीं काञ्चित् काचिद्वक्ति--
 
किं करवाणि दिवानिशमपि लग्ना सहजशीतलप्रकृतिः ।
हन्त सुखयामि न प्रियमात्मानमिवात्मनश्छाया ॥ १६६ ॥
 
किमिति । सह बाल्यतः । पक्ष उत्पत्तित इत्यर्थः । जाता, शीतला शान्ता । पक्षे
यथाश्रुतम् । प्रकृतिः स्वभावो यस्याः सा । एवं च सर्वदा मधुरवचनशालित्वं व्यज्यते ।
दिवानिशमपि लग्ना । सेवार्थमिति भावः । अहमात्मनः स्वस्य छायात्मानमिव प्रियं
हन्त खेदे न सुखयामि । किं करवाणि । एवं च यथा सर्वदा निकटवर्तिनी शीतलापि
स्वच्छाया न सुखजनिका तथाहं संवृत्तेत्यत्र न मद्दोषः, अपि तु ईश्वरेच्छैवात्र नियामि-
केति व्यज्यते । यद्वा सततसेवाकारित्वसौम्यत्वस्वीयत्वादिदोषवत्त्वादहं न सुखजनि-
केति द्योत्यते । तेन चैतदभाववत्येवैतत्तोषजनिकेति ॥
 
नायकसंगमे श्रमो भवतीति वादिनीं सखी वक्ति--
 
केशैः शिरसो गरिमा मरणं पीयूषकुण्डपातेन ।
दयितवहनेन वक्षसि यदि भारस्तदिदमचिकित्स्यम् ॥ १६७ ॥
 
केशैरिति । स्फुटार्थमेतत् ॥