2023-03-13 16:09:16 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
निताभिर्मुषितस्य वित्तविनाशक्लेशो लघुः । परं तु जनहास्यता महती । एवं च सामा-
न्यवनितासंगमो न विधेय इति व्यज्यते ॥
सखी नायिकां वक्ति--
किं पर्वदिवसमार्जितदन्तोष्ठि निजं वपुर्न मण्डयसि ।
स त्वां त्यजति न पर्वस्वपि मधुरामिक्षुयष्टिमिव ॥ १६१ ॥
किमिति । पर्वदिवसे मार्जितौ दन्तोष्ठौ यया तत्संबुद्धिः । ब्रह्मचर्यस्थितिधियेति
भावः । निजं वपुः किमिति न मण्डयसि । स त्वां मधुराम् । एवं च निषेधवचनका-
रिणी न त्वमिति व्यज्यते । इक्षुयष्टिमिव पर्वस्वपि पर्वकालेऽपि । पक्षे ग्रन्थिष्वपि ।
'ग्रन्थिर्ना पर्वपरुषी' इत्यमरः । न त्यजति । एवं च मिथ्यैतत्त्वं दर्शयसि, तेन तु त्वं
यथेच्छमुपभोग्येति ध्वन्यते ॥
केनचिन्नायकेन सह संयोजयितुं नायिकां दूती वक्ति--
कष्टं साहसकारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः ।
उपवीतादपि विदितो न द्विजदेहस्तपस्वी ते ॥ १६२ ॥
कष्टमिति । हे साहसकारिणि । अनुचितकारिणीत्यर्थः । एवं च मया तवोचितमे-
वोपदिश्यत इति व्यज्यते । तव । एवं च साक्षादनपराधत्वेऽपि स्वीयत्वेन तदपराधस्य
त्वय्येवागमनमिति व्यज्यते । तेन च तत्परिहारकर्तव्यता तवैवेति । नयनार्धेन स नायको-
ऽध्वनि स्पृष्टः । वत्कटाक्षविषयीभूत इत्यर्थः । इदं कष्टम् । महदनुचितमित्यर्थः । एवं
च त्वत्कटाक्षविशिखहतस्य तस्य त्वद्दर्शनं विना प्राणवियोग एव भवितेति व्यज्यते ।
किमेतावता इत्यत आह--तपस्वी । एवं च करुणार्हत्वं व्यज्यते । ब्राह्मणदेह उपवीता-
दपि । एवं च प्रत्यक्षपरिदृश्यमानत्वेन न स ब्राह्मण इति वक्तुमशक्यमिति भावः । तेन
च विदितः । एवं चान्यजातीयस्य यथातथास्ताम्, अयं तु ब्राह्मणोऽवश्यं त्वया गत्वा
जीवनीय इति द्योत्यते ॥
श्रमातिशयप्राप्तयानया ते किं सुखमिति वादिनं कश्चिद्वक्ति--
क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्येव ।
रौद्रेऽनभ्रेऽपि नभःसुरापगावारिवृष्टिरिव ॥ १६३ ॥
क्लेशेऽपीति । क्लेशेऽपि विस्तार्यमाणे मिलितेयं मां प्रमोदयत्येव । एवं चान्यस्यैता-
दृशी मोदयति न वेति को वेदेति भावः । अभ्राभावेऽपि घर्मे नभसः सुरापगाया वारिवृ-
ष्टिरिव । एवं चाभ्राभावे घर्मे खिन्नस्य यथा वृष्टिरत्यन्तसुखदा तथैतस्याः संगतिरिति
व्यज्यते । मेघाभावेऽप्यातपे ये जलबिन्दवः पतन्ति ते सुरापगाया इति लोकप्रथा ॥
गुणाभिज्ञभीरुकुलजनायिकानामेवान्यानवलोकनीयतासंपादकपटावगुण्ठनमुचितम्,
न त्वन्यासामपीति कश्चिद्वक्ति--
कूपप्रभवाणां परमुचितमपां पट्टबन्धनं मन्ये ।
याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥ १६४ ॥