This page has not been fully proofread.

काव्यमाला ।
 
निताभिर्मुषितस्य वित्तविनाशक्लेशो लघुः । परं तु जनहास्यता महती । एवं च सामा-

न्यवनितासंगमो न विधेय इति व्यज्यते ॥
 

 
सखी नायिकां वक्ति
 
७२
 
--
 
किं पर्वदिवसमार्जितदन्तोष्ठि निजं वपुर्न मण्डयसि ।
 

स त्वां त्यजति न पर्वस्वपि मधुरामिक्षुयष्टिमिव ॥ १६१ ॥

 
किमिति । पर्वदिवसे मार्जितौ दन्तोष्ठौ यया तत्संबुद्धिः । ब्रह्मचर्यस्थितिधियेति

भावः । निजं वपुः किमिति न मण्डयसि । स त्वां मधुराम् । एवं च निषेधवचनका-

रिणी न त्वमिति व्यज्यते । इक्षुयष्टिमिव पर्वखपि पर्वकालेऽपि । पक्षे ग्रन्थिष्वपि ।

'ग्रन्थिन पर्वपरुषी' इत्यमरः । न त्यजति । एवं च मिथ्यैतत्त्वं दर्शयसि, तेन तु त्वं

यथेच्छमुपभोग्येति ध्वन्यते ॥
 

 
केनचिन्नायकेन सह संयोजयितुं नायिकां दूती वक्ति-
-
 
कष्टं साहसकारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः ।

उपवीतादपि विदितो न द्विजदेहस्तपस्वी ते ॥ १६२ ॥
 

 
कष्टमिति । हे साहसकारिणि । अनुचितकारिणीत्यर्थः । एवं च मया तवोचितमे-

वोपदिश्यत इति व्यज्यते । तव । एवं च साक्षादनपराधत्वेऽपि स्वीयत्वेन तदपराधस्य

त्वय्येवागमनमिति व्यज्यते । तेन च तत्परिहारकर्तव्यता तवैवेति । नयनार्धेन स नायको-

ऽध्वनि स्पृष्टः । वत्कटाक्षविषयीभूत इत्यर्थः । इदं कष्टम् । महदनुचितमित्यर्थः । एवं

च त्वत्कटाक्षविशिखहतस्य तस्य त्वद्दर्शनं विना प्राणवियोग एव भवितेति व्यज्यते ।

किमेतावता इत्यत आह--तपस्वी । एवं च करुणार्हत्वं व्यज्यते । ब्राह्मणदेह उपवीता-

दपि । एवं च प्रत्यक्षपरिदृश्यमानत्वेन न स ब्राह्मण इति वक्तुमशक्यमिति भावः । तेन

च विदितः । एवं चान्यजातीयस्य यथातथास्ताम्, अयं तु ब्राह्मणोऽवश्यं त्वया गला

जीवनीय इति द्योत्यते ॥
 

 
श्रमातिशयप्राप्तयानया ते किं सुखमिति वादिनं कश्चिद्वक्ति
 
--
 
क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्येव ।
 

रौद्रेऽनभ्रेऽपि नभःसुरापगावारिवृष्टिरिव ॥ १६३ ॥
 

 
क्लेशेऽपीति । क्लेशेऽपि विस्तार्यमाणे मिलितेयं मां प्रमोदयत्येव । एवं चान्यस्यैता-

दृशी मोदयति न वेति को वेदेति भावः । अभ्राभावेऽपि घर्मेनभसः सुरापगाया वारिवृ-

ष्टिरिव । एवं चाभ्राभावे घर्मे खिन्नस्य यथा वृष्टिरत्यन्तसुखदा तथैतस्याः संगतिरिति

व्यज्यते । मेघाभावेऽप्यातपे ये जलबिन्दवः पतन्ति ते सुरापगाया इति लोकप्रथा ॥

गुणाभिज्ञभीरुकुलजनायिकानामेवान्यानवलोकनीयतासंपादकपटावगुण्ठनमुचितम्,
 

 
न त्वन्यासामपीति कश्चिद्वक्ति -
 
--
 
कूपप्रभवाणां परमुचितमपां पट्टबन्धनं मन्ये GDF
 


याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥ १६४ ॥
 
Sri Gargeskuiri Digital Fundation