This page has not been fully proofread.

आर्यासप्तशती ।
 
कितवेति । हे कितव । एवं चागमनभीतिरावेद्यते । भवता प्रपश्चिता प्राकट्यं नीता

चालिता च । मन्दाक्षेण लजया । पक्षे मन्दपाशकैः । स्वल्पसंख्यावद्भिरित्यर्थः । मन्दः

खल्पः संचारो गृहागृहान्तरगमनं यस्याः । बहुद्रव्यैरपि । पक्षे बहुदायैरित्यर्थः । वारं-

वारपातनैरिति यावत् । अपिनोपायान्तरशून्यत्वं ध्वन्यते । संप्रति । कालान्तरे को वेद

किं भविष्यतीति न जान इति व्यज्यते । पाशकसारीव पाशक्रीडनगुटिकेव नायाति ।

एवं च तवैवापराधो न तस्या इति द्योयते ॥
 

 
साधारणव निताप्रतिवेशी कंचित्प्रति वक्ति-
-
 
कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् ।

प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ॥ १५८ ॥
 

 
क इति । यस्य माघार्धरात्रेऽपि सौभाग्यं प्रालेयानिलेन दीर्घः । प्रालेयानिलस्य श्रमा-

पनोदकतया सुरतातिशयसंपादनेन काश्चीनिनाददैर्घ्यसंपादकत्वमिति भावः । काञ्चीनि-

नादः कथयति । अत एव श्लाघा जन्म यस्य । धनिकत्वादिति भावः । अयं कः । एवं

चैतादृशशीतातिशयशालिसमयेऽपि नायिकेयमत्यन्तोल्लासेन विपरीतरतं विदधाति तस्मा-

दयमर्थविशेषशालीति ज्ञातम्, परं तु का वास्याभिधेति न ज्ञायत इति भावः । यद्वाकः

श्लाघनीयजन्मेति प्रश्न उत्तरं वक्ति - प्रालेयानिलदीर्घः । एवं च संतापापनोदकत्वं ध्व-

न्यते । अयमित्यत्यन्तानुसंधीयमानत्वेन प्रत्यक्षवन्निर्देशः । काञ्चीनिनादो माघनिशीथे-

ऽपि । अपिनेतरकालसमुच्चयः । एवं च माघरात्रेरतिदीर्घलं तत्राप्यतिचिरकालीनं रत-

मितोऽन्यक किमु वायमिति व्यज्यते । यस्य सौभाग्यं कथयति । एवं च यस्यैवा-

तिसुप्रेमसुरतनिपुणतरुणीसंततसङ्गवत्ता स एव श्लाघनीयजन्मेति भाव इत्यर्थः ॥

 
किमशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स्म ।
 
-
 

सा गिरिशभुजभुजंगमफणोपधानाद्य निद्राति ॥ ११९ ॥

 
किमिति । प्रेम्णः किमपि नाशक्यं यतो या सर्पवार्तयापि बिभेति स्म सा हरभुज-

सर्पफणारूपमुपधानं यस्या एतादृशी । अद्य । विवाहोत्तरदिन इत्यर्थः । निद्राति । एवं

च प्रेम्णा किं किं न संभवतीति व्यज्यते । पार्वतीसखीवाक्यमेतत् । यद्वा प्रेमवत्त्वेऽपि

तत्रागमने मम भीतिरुत्पद्यत इति वादिनीं नायिकां नायकदूती दृष्टान्तेन वक्ति – अद्य ।

अधुनेत्यर्थः । एवं च यदि ते प्रेम तर्हि ते नास्त्येव भीतिः, अन्यथा न प्रेम इत्युभयतो-

ऽपि काठिन्यम्, अतः प्रयाहीति ध्वन्यते । यद्वा तद्रसाखादोत्तरं न ते स्थास्यति भीति-

रिति ध्वन्यते ॥
 
-
 

 
सामान्य वनितासंगतिरनुचितेति कश्चित्कंचिच्छिक्षयति-
-
 
कृत्रिमकन केनेव प्रेम्णा मुषितस्य वारवनिताभिः ।

लघुरिव वित्तविनाशक्लेशो जनहास्यता महती ॥ १६० ॥

 
कृत्रिमेति । कृत्रिमं धातुवादादिभिर्मिथ्या विधीयमानं यत्कनकं तेनेव प्रेम्णा वारव-
ME
 
Sri Gargeskusri Digital Foundation