This page has not been fully proofread.

यद्वा केनचिन्महत्तरविटेन पूर्वं पालितां तदपगमोत्तरं सर्वसुलभां सामान्यवनितामन्यो-
क्त्या तत्प्रशंसनपुरःसरं वक्ति । एवं च तद्विटगमनोत्तरं तथाविधोज्ज्वलदुकूलबहुमू-
ल्यमणिमयभूषणाद्यभावेऽपि सकलजनोल्लङ्घनीयत्वं तव वृत्तमिति व्यज्यते ॥
 
कश्चिन्नायिकाप्रसादनवृत्तान्तं वयस्यं प्रति वक्ति--
 
किंचिन्न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः ।
मयि पदपतिते केवलमकारि शुकपञ्जरो विमुखः ॥ १५४ ॥
 
किंचिदिति । मयि पदपतिते कृतप्रणामे । मानापनोदनार्थमिति भावः । बालया
किंचिन्नोक्तम् । सम्यगसम्यग्वेति भावः । न केवलं वचनाभावमात्रम्, अपि तु प्रसादस-
हिता दृष्टिर्न निवेशिता । किं तु केवलं शुकपञ्जरोऽन्यदिङ्मुखोऽकारि । एवं च शुकपञ्ज-
रवैमुख्यसंपादनरूपरहःसंपादनेन रत्यनुमतिरेव दत्तेति व्यज्यते ॥
 
साधारणवनिताचेष्टां कश्चिद्वक्ति--
 
कृतहसित हस्ततालं मन्मथतरलैर्विलोकितां युवभिः ।
क्षिप्तः क्षिप्तो निपतन्नङ्गे नर्तयति भृङ्गस्ताम् ॥ १५५ ॥
 
कृतेति। कृतो हसितेन हस्ततालो यत्र । परस्परमिति भावः । मन्मथचञ्चलैः । एवं
च लजाविरहो व्यज्यते । युवभिर्विलोकितां नायिकां क्षिप्तः क्षिप्तः । वारं वारं दूरीकृत
इति भावः । अङ्गेषु शरीरावयवेषु निपतन् भृङ्ग इव भृङ्गः । एवं च रसलम्पटत्वं व्य-
ज्यते । नर्तयति । भृङ्गोऽपि चपलकिसलयचाञ्चल्यदूरीकृतोऽपि पुनस्तामेव लतामाल-
म्बत इति भृङ्गपदेन नायिकायां लतात्वारोपणेनावयवेषु पल्लवत्वारोपणेन कोमलत्वमावे-
द्यते । एवं चेयं विटेन वारं वारं तत्करनिवारणमवगणय्य लोकदृष्टिं लज्जां च कुचादौ
स्पृश्यत इति कौतुकं त्वं पश्येति व्यज्यते । अन्ये तु यथाश्रुतमेवाहुः ॥
 
निरोधदुःखितां नायिकां काचिच्छिक्षयति--
 
कमलमुखि सर्वतोमुखनिवारणं विदधदेव भूषयति ।
रोधोऽरुद्धस्वरसास्तरङ्गिणीस्तरलनयनाश्च ॥ १५६ ॥
 
कमलेति । हे कमलमुखि, सर्वतोमुखस्य जलस्य निवारणं बन्धनेन प्रवाह विच्छेदनं
सर्वस्मान्मुखस्याप्रदर्शनं च । लज्जयेति भावः । विदधदेव तीरं रोधनं च । अरुद्धः
स्वस्य रसो जलम्, इच्छा च याभिस्ता नदीः, नायिकाश्च भूषयति । एवं चावश्यस्पृह-
णीयत्वं रोधने द्योत्यते । तरङ्गिणीतरलनयनपदाभ्यां चाञ्चल्यमभिव्यज्यते । एवं चावश्यं
निरोधवत्त्वेन भवितव्यमिति ध्वन्यते ॥
 
किमर्थं न सा समायातीति वादिनं नायकं दूती वक्ति--
 
कितव प्रपञ्चिता सा भवता मन्दाक्षमन्दसंचारा ।
बहुदायैरपि संप्रति पाशकसारीव नायाति ॥ १५७ ॥