This page has not been fully proofread.

आर्यासप्तशती ।
 
कालेति । कालक्रमेण कमनीयः क्रोडः समीपदेशः । पक्षे भुजाभ्यन्तरम् । इयं
केतकीति काशंसा । न कापीत्यर्थः । अत्रोपष्टम्भकमाह - यथा यथास्या वृद्धिस्तथा
तथा कण्टकोत्कर्षो भविता । एवं चैतस्या यौवनेऽनेकदुष्टप्रचारो भवितेति व्यज्यते ।
तेन च न तवोपयोग इति । कण्टकोत्कर्षभवनरूपक्रियान्वयस्यैकदा तत्पदार्थे भवितुम
र्हत्वात् 'संचारिणी-' इत्यादिपद्यवदत्र तच्छब्दे वीप्सा समुचितेत्याभाति ॥
 
बहुतरसमाधानसमाहितामपि समाधानमप्राप्तां मानिनीमवलोक्य निर्विण्णहृदयतया
सुप्तं नायकम् 'सुप्तोऽयम् । अतः परं किं विधेयम्' इति विह्वला नायिका वक्ति–
कृतकस्वाप मदीयश्वासध्वनिदत्तकर्ण किं तीत्रैः ।
 
विध्यसि मां निःश्वासैः स्मरः शरैः शब्दवेधीव ॥ १५२ ॥
 
कृतकेति । कृत्रिमस्खाप । एवं च 'न शयानं बोधयेत्' इति निषेधोल्लङ्घनदोषानर्हत्वं
ध्वन्यते । मदीयश्वासध्वनिषु दत्तः कर्णो येन । एवं च त्वदीयावगणनाकारिण्या मम
सम्यगिदं संतापजश्वासजातं जातमिति भावः । मां तीत्रैघैः । एवं च स्वापे कृतकत्ल-
मावेद्यते । पक्षे तीक्ष्णैः । निःश्वासैः शब्दवेधी स्मर इव शरैः किं किमिति विध्यसि ।
एवं च मद्विहितावगणनासंजातसंतापजत्वदीयश्वासैः कथमयमवगणित इति मम दुःखमु-
त्पद्यते । श्वासेषु स्मरशरसमताप्रतिपादनेन समुत्पन्नमन्मथतीव्रवेदना विगलिताभिमानाहं
संवृत्तास्मीति च व्यज्यते । यद्वा सपत्नीसविधे गन्तुकामं नायकं विज्ञाय नायिका
वक्ति – मिथ्यासुप्त । मदीयश्वासध्वनिदत्तकर्ण । यदैवेयं खापं करिष्यति तदैव मया तत्र
गन्तव्यमिति धियेति भावः । निःश्वासैरित्यनेन मदीयनिद्रां विज्ञाय न मया सुप्तव्यमिति
धीमत्त्वं ध्वन्यते । किमिति विध्यसि । एवं च छलेन किमर्थं गन्तुमुद्यतोऽसि, एवमेव
गच्छ, न मया निवार्यस इति स्खदुःखं व्यञ्जयति । निःश्वासेषु स्मरशरसमताप्रतिपादनेन
बहिः क्षतजनकत्वाभावेऽत्यन्तःक्षतविशेषजनकत्वमित्यावेद्यते । अथवा सपत्नीमुपभुज्या-
गतं मिथ्यासुप्तं नायकं नायिका वक्ति – हे मिथ्याखाप । मदीयश्वासध्वनिदत्तकर्ण ।
किमियं जागर्ति न वेति ज्ञातुमिति भावः । निःश्वासैः । संभोगजन्यैरिति भावः । मां
किमिति विध्यसि । दुःखं ददासीत्यर्थः । श्वासेषु स्मरशरसमताप्रतिपादनेन केवलखसा-
क्षिकवेदनाजनकत्वं ध्वन्यते ॥
 
कश्चित्षिङ्ग विशेषसंचारनिरुद्धान्यसंचारां तद्गमनोत्तरं सामान्य वनितामन्योक्त्या वक्ति-
क्व स निर्मोकदुकूलः क्वालंकरणाय फणिमणिश्रेणी ।
 
कालियभुजंगगमनाद्यमुने विश्वस्य गम्यासि ॥ १५३ ॥
 
क्वेति । स प्रसिद्धो निर्मोक एव सर्पकञ्चुक एव दुकूलः क्व । अलंकरणाय फणिमणि-
श्रेणी क्व । कालियनामा यो भुजंगः सर्पः । पक्षे तत्तुल्यो विटः । तद्गमनाद्विश्वस्य यमुने
नदि । पक्षे यमुनेति नाम । गम्यासि । एवं च तथाविधदुष्टविटसंपर्कसंजातान्योपभुक्त-
वसनादि सर्वे विहाय तदभावात्सकलजनसंसर्गादधुनान्यादृशमेव सर्वे संवृत्तमिति व्यज्यते ।
 
आ० स० ७
 
Sri Gargeshwari Digital Foundation