This page has been fully proofread once and needs a second look.

नायकप्रेषितदूतीं नायिका वक्ति--
 
एकं वदति मनो मम यामि न यामीति हृदयमपरं मे ।
हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः ॥ १४८ ॥
 
एकमिति । हे दूति, एकं मम मनो यामीति वदति, न यामीत्यपरं हृदयं वदति ।
एवं च गन्तव्यं वा न गन्तव्यमिति संशयशालिन्यहमिति व्यज्यते । नायिका गमने
संशयं श्रुत्वा सखी वक्ति- हे सुन्दरि । एवं च नायिकासक्तिस्त्वय्युचितैवेति ध्वन्यते ।
हृतं स्वाधीनीकृतं कान्तव्य चित्तं यया तस्यास्तव हृदयद्वयमुचितम् । एवं च नायक-
चित्तस्य त्वयि निमग्नत्वेन तवैतादृशमौदासीन्यं तच्च तस्यान्यत्रानुरागित्वेऽवश्यं त्वया
द्रुततरं तत्रागन्तव्यमिति व्यज्यते । अत्र सर्वत्र चित्तार्थकयत्किञ्चिदेकपदस्यैवादानमु-
चितमित्याभाति ॥
 
कश्चिद्धलिकवधूसङ्गं स्तौति--
 
एरण्डपत्त्रशयना जनयन्ती स्वेदमलघुजघनतटा ।
धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिकवधूः ॥ १४९ ॥
 
एरण्डेति । एरण्डपत्त्राणां शयनं यस्याः । स्वेदम् । अर्थान्नायकस्य । सुरतातिशयेने-
त्यर्थः । जनयन्ती । महज्जनघनतटा, मिलन्ती, हलिकस्य वधूर्धूल्याः पुटीव स्मरसं-
बन्धिज्वरं हरति । एरण्डपत्त्रान्तरिता, स्वेदमुत्पादयन्ती, स्थूलपुरोभागा, अङ्गसङ्गशा-
लिनी, धूलिपोटली मदनज्वरशान्तिजनिकेति वैद्यकप्रसिद्धिः ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेतैकारव्रज्या ।
--------------------------
 
ककारव्रज्या ।
 
इयं प्रतिवेश्यासक्तेति कश्चिद्वक्ति--
 
केलिनिलयं सखीमिव नयति नवोढां स्वयं न मां भजते ।
इत्थं गृहिणीमर्ये स्तुवति प्रतिवेशिना हसितम् ॥ १५० ॥
 
केलीति । केलिसदनं नवोढाम् । एवं चेयमवश्यमनेन भोक्तव्येति ज्ञानवत्त्वं ध्व-
न्यते । सखीमिव । एवं च द्वेषशून्यत्वं व्यज्यते । प्रापयति स्वयं मां न भजते । इत्थं
च गृहिणीमर्ये वैश्ये । 'अर्यः स्वामिवैश्ययोः' इत्यमरः । स्तुवति सति प्रतिवेशिना
हसितम् । इयं च मदासक्त्या सपत्नीमेतस्मिन् संयोज्यात्रायातीति नानेन मूर्खेण ज्ञायत
इति धियेति भावः ॥
 
किंचित्कालोत्तरमियं प्राप्तयौवनास्माकमुपयुक्ता भविष्यतीत्याशंसाकारिणं कश्चिद
न्योक्त्या वक्ति--
 
कालक्रमकमनीयक्रोडेयं केतकीति काशंसा ।
वृद्धिर्यथा यथास्यास्तथा तथा कण्टकोत्कर्षः ॥ १११ ॥