This page has not been fully proofread.

काव्यमाला ।
 
नायकप्रेषितदूत नायिका वक्ति-
-
 
एकं वदति मनो मम यामि न यामीति हृदयमपरं मे ।

हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः ॥ १४८ ॥

 
एकमिति । हे दूति, एकं मम मनो यामीति वदति, न यामीत्यपरं हृदयं वदति ।

एवं च गन्तव्यं वा न गन्तव्यमिति संशयशालिन्यहमिति व्यज्यते । नायिका गमने

संशयं श्रुत्वा सखी वक्ति- हे सुन्दरि । एवं च नायिकासक्तिस्त्वय्युचितैवेति ध्वन्यते ।

हृतं स्वाधीनीकृतं कान्तव्य चित्तं यया तस्यास्तव हृदयद्वयमुचितम् । एवं च नायक-

चित्तस्य त्वयि निमग्नत्वेन तवैतादृशमौदासीन्यं तच्च तस्यान्यत्रानुरागित्वेऽवश्यं त्वया

द्रुततरं तत्रागन्तव्यमिति व्यज्यते । अत्र सर्वत्र चित्तार्थ कयत्किचिदेकपदस्यैवादानमु-

चितमित्याभाति ॥
 

 
कश्चिद्धलिकवधूसङ्गं स्तौति-
-
 
एरण्डपत्रशयना जनयन्ती स्वेदमलघुजघनतटा ।
 

धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिकवधूः ॥ १४९ ॥

 
एरण्डेति । एरण्डपत्राणां शयनं यस्याः । स्वेदम् । अर्थान्नायकस्य । सुरतातिशयेने-

त्यर्थः । जनयन्ती । महजनघनतटा, मिलन्ती, हलिकस्य वधूधूल्याः पुटीव स्मरसं-

बन्धिज्वरं हरति । एरण्डपत्रान्तरिता, स्वेदमुत्पादयन्ती, स्थूलपुरोभागा, अङ्गसङ्गशा-

लिनी, धूलिपोटली मदनज्वरशान्तिजनिकेति वैद्यकप्रसिद्धिः ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गधार्थदीपनया समेतैकारव्रज्या ।
 

--------------------------
 
ककारव्रज्या ।
 

 
इयं प्रतिवेश्यासक्तेति कश्चिद्वक्ति-
-
 
केलिनिलयं सखीमिव नयति नवोढां स्वयं न मां भजते ।

इत्थं गृहिणीमर्ये स्तुवति प्रतिवेशिना हसितम् ॥ १५० ॥

 
केलीति । केलिसदनं नवोढाम् । एवं चेयमवश्यमनेन भोक्तव्येति ज्ञानवत्वं ध्व-

न्यते । सखीमिव । एवं च द्वेषशून्यत्वं व्यज्यते । प्रापयति स्वयं मां न भजते । इत्थं

च गृहिणीमर्ये वैश्ये । 'अर्यः स्वामिवैश्ययोः' इत्यमरः । स्तुवति सति प्रतिवेशिना

हसितम् । इयं च मदासक्त्या सपत्नीमेतस्मिन्संयोज्यात्रा यातीति नानेन मूर्खेण ज्ञायत

इति धियेति भावः ॥
 
-
 

 
किंचित्कालोत्तरमियं प्राप्तयौवनास्माकमुपयुक्ता भविष्यतीत्याशंसाकारिणं कश्चिद

न्योक्त्या वक्ति-
-
 
कालक्रमकमनीयक्रोडेयं केतकीति काशंसा SGDF
 

वृद्धिर्यथा यथास्यास्तथा तथा कण्टकोत्कर्षः ॥ १११ ॥
 
Sri Gorgeshwari Digital Foundation