This page has not been fully proofread.

एकैकश इति । प्रत्येकमित्यर्थः । 'एकैकशो दत्त्वा, एकैकशो ददाति' इति भाष्यका-
रप्रयोगद्वयवच्छस् । 'इहेदानीमेकैकशो वैधर्म्यमुच्यते, एकैकशस्ताववलोक्य येऽन्यत्रैकै-
कशो दुर्लभाः' इति प्रशस्तपादभाष्य-स्वयंवरप्रस्तावीयवासवदत्ता-समाप्तकल्पदशकुमा-
रप्रयोगाश्चेत्यलमत्र विचारेण । युवजनम् । युवपदेन स्पृहणीयत्वं व्यज्यते । अक्षाणां
मालामणीनां समुदायमिव विलङ्घमानावगणयन्ती । पक्ष उल्लङ्घयन्ती । अङ्गुलिरिव तरला
मेरुमिव मालाप्रान्तमणिमिव त्वां प्राप्य सुभग । एवं चैतादृशनायिकासक्तिर्न भाग्यं
विनेति व्यज्यते । विश्राम्यति । मेरोरुल्लङ्घनं न कार्यमिति जापकसंप्रदायः ॥
 
कश्चिद्याच्या खेदखिन्नो वक्ति--
 
एकः स एव जीवति स्वहृदयशून्योऽपि सहृदयो राहुः ।
यः सकललघिमकारणमुदरं न बिभर्ति दुष्पूरम् ॥ १४५ ॥
 
एक इति । सकललघुताकारणम्, दुःखेन पूरयितुमशक्यम् । दुष्पूरत्वं लघुताकारणे
हेतुः । उदरं यो न बिभर्ति स स्वहृदयविहीनोऽपि । स्वपदमनर्थकमिवाभाति । सहृदयो
हृदयेन सहितो राहुरेवैको जीवति । एवं च ये स्वोदरदरीपूरणाय याच्ञां कुर्वन्ति त
एव मृता इति व्यज्यते ॥
 
कश्चिद्विदेशस्थो मनोरथं करोति--
 
एकेन चूर्णकुन्तलमपरेण करेण चिबुकमुन्नमयन् ।
 
पश्यामि बाष्पधौतश्रुति नगरद्वारि तद्वदनम् ॥ १४६ ॥
 
एकेनेति । एकेन करेण चूर्णकुन्तलम् । 'अलकाश्चूर्णकुन्तलाः' इत्यमरः । अपरेण
चिबुकमुन्नमयन्नगरद्वारदेशे । प्रेमातिशयेन तावद्दूरागमनमिति भावः । बाष्पैः । चिरका-
लदर्शनादिति भावः । धौता श्रुतिर्यत्र । तिर्यक्चिबुकोन्नमनादिति भावः । तस्या वदनं
पश्यामि, इति काक्का एवं जगदीश कदा करिष्यसीति व्यज्यते । 'विगलद्वारि' इति पाठे
कुन्तलविशेषणम् ॥
 
नायिकासखी नायकं वक्ति--
 
एकं जीवनमूलं चञ्चलमपि तापयन्तमपि सततम् ।
अन्तर्वहति वराकी सा त्वां नासेव निःश्वासम् ॥ १४७ ॥
 
एकमिति । एकम् । नान्यदित्यर्थः । जीवनकारणम् । एवं च त्यागानर्हत्वं ध्वन्यते ।
चञ्चलस्वभावमपि । एवं चान्यत्र त्वदीयानुबन्धादिश्रवणेऽपि तस्यास्त्वय्यनुराग इति
दुर्लभतरेयमेतादृशी नायिकेति व्यज्यते । तेन च त्वया न चाञ्चल्यं विधेयमिति । निरन्तरं
तापयन्तम् । चञ्चलस्वाभाव्यादिति भावः । नासेव सा वराकी । एवं च दीनत्वं
व्यज्यते । निःश्वासतुल्यं त्वामन्तर्वहति । एवं च बहिस्तथाविधकृत्रिमचाटुवचनविज्ञान-
शून्यत्वेऽप्यन्तःप्रेमशालित्वमिति व्यज्यते ॥