This page has been fully proofread once and needs a second look.

शास्त्रचर्चांत्र भवतीति विज्ञायागतस्तत्र ग्रामीणचर्चामालोक्य कश्चिद्वक्ति--
 
ऋषभोऽत्र गीयत इति श्रुत्वा स्वरपारगा वयं प्राप्ताः ।
को वेद गोष्ठमेतद्गोशान्तौ विहितबहुमानम् ॥ १४१ ॥
 
ऋषभ इति । ऋषभः स्वरविशेषः, वृषभश्च । 'ऋषभो वृषभो वृषः' इत्यमरः । अत्र
गीयत इति ज्ञात्वा स्वरज्ञानवन्तो वयं समागताः । एतत्स्थलं गोशान्तौ विहितो बहुमानो
यत्रेति गोष्ठं गोस्थानकमिति को वेद । दीपोत्सवादावाभीरा गवामलंकरणं विधाय गानं
कुर्वन्तीति देशाचारः। एवं च नाममात्रादेवास्माकं गानसमानत्वबुद्धिरुदभवदिति भावः ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता ऋकारव्रज्या ।
----------------------------
 
एकारव्रज्या ।
 
नायकोऽधरं स्तौति--
 
एको हरः प्रियाधरगुणवेदी दिविषदोऽपरे मूढाः ।
विषममृतं वा सममिति यः पश्यन् गरलमेव पपौ ॥ १४२ ॥
 
एक इति । प्रियाधरगुणान् वेत्ति । एवं च विशिष्य वक्तुमशक्यत्वं गुणेषु व्यज्यते ।
एको हरः । एवं च विरक्तवेषवत्तया नान्यथाभाव आशङ्कनीय इति भावः । अन्ये देवा
मूढाः । उभयत्र हेतुमाह--यो हरो विषममृतं वा सममिति विचारयन् गरलमेव पपौ ।
एवं च प्रियाधरं विनामृतमपि विषतुल्यमिति व्यज्यते । दिविषदस्तु कमलाधरार्थं यत्न-
मकुर्वाणा अमृतार्थं च कुर्वाणास्ततस्तदधिकमिति मन्वाना मूढा इति भावः । यद्वा
एको हरः प्रियाधरगुणज्ञानवान्, नान्ये देवाः । किं पुनर्मानुषा इति भावः । यतो यो
विषमप्यमृततुल्यं विज्ञाय तदेव पपौ । एवं च प्रियाधरपानसंबन्धिनिवेदने विषमप्यमृतं
भवतीति भावः । एवं च प्रियाधरेऽधिकत्वं सुधातो द्योत्यते । अत्रोभयत्र विषगरलप-
दान्यतरस्यैवोपादानमुचितमित्याभाति ॥
 
काचिद्दुष्टा प्रियगमनावसरेऽपुनरावृत्त्यर्थममङ्गलं कुर्वाणा तदमङ्गलभीयावस्थितं ना-
यकमवलोक्यान्यथाचिन्तितस्यान्यथाभवनं दैवाधीनमिति सखीं वक्ति--
 
एष्यति मा पुनरयमिति गमने यदमङ्गलं मयाकारि ।
अधुना तदेव कारणमवस्थितौ दग्धगेहपतेः ॥ १४३ ॥
 
एष्यतीति । अयं पुनर्मा एतु, एतदर्थं यदमङ्गलं गमनकालेऽकारि तेनैव कारणेन
ज्वलितगृहपतेरवस्थितिः संवृत्तेत्यर्थः ॥
 
त्वय्येवासक्तास्ति सेति सखी नायकं वक्ति--
 
एकैकशो युवजनं विलङ्घमानाक्षनिकरमिव तरला ।
विश्राम्यति सुभग त्वामङ्गुलिरासाद्य मेरुमिव ॥ १४४ ॥