This page has not been fully proofread.

त्वत्करस्पर्शनादेवास्मत्सखी विगतधैर्या सती त्वामनुसरतीति नायिकासक्तिं सखी
वक्ति--
 
उत्तमवनितैकगतिः करीव सरसीपयः सखीधैर्यम् ।
आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन्हरसि ॥ १३८ ॥
 
उत्तमेति । उत्तमवनितानामेकगतिरूपः । एवं च खास्वानुरूपान्यनायकाभावेन नायि-
कासक्तिस्त्वयि युक्ततरेति व्यज्यते । पक्ष उत्तमवनितावदेका मुख्या गतिर्यस्य । आस्क-
न्दितावूरू जङ्घे येन तेन । पक्षे संस्पृष्टस्जङ्घेन । हस्तेनैव । पक्षे शुण्डादण्डेनैव । स्पृ-
शन्करी सरसीपय इव सख्या धैर्यं हरसि । एवकारेणालिङ्गनादौ किं किं हरिष्यसीति
न विद्म इति व्यज्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेतोकारव्रज्या ।
--------------------------------------
 
ऊकारव्रज्या ।
 
कांकाञ्चिज्जरठविवाहितां तदीयप्रेमराहित्यखिन्नां सख्यन्योक्त्या वक्ति--
 
ऊढामुनातिवाहय पृष्ठे लग्नापि कालमचलापि ।
सर्वेवंसहे कठोरत्वचः किमङ्केन कमठस्य ॥ १३९ ॥
 
ऊढेति । हे सर्वेवंसहे वसुमति । एवं चैतदीयापराधसहने तव न किंचित्कठिनमिति
व्यज्यते । अमुना कमठेनोढा सती पृष्ठे लग्नापि । अपिरवधारणे । लग्नैवेत्यर्थः । अच-
लापि । एवं च स्वतो निश्चलायाश्चाञ्चाल्याभावोपदेश: पिष्टपेषणतुल्य इति व्यज्यते ।
कालमतिवाहय । 'असि' इति पाठे यतो निश्चलासि, अत एव कालमतिवाहयेति यो-
जना । कठोरत्वचः । एवं च जरठत्वं ध्वन्यते । कमठस्याङ्केन किम् । एवं चैतज्जरठ.-
पाणिग्रहणशालिन्या चाञ्चलशून्यया त्वया कर्कशतदङ्केच्छामपहाय सर्वमेतत्तदीयापराध-
जातमपि सोड्वावस्थेयमिति ध्वन्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशती व्यङ्गथार्थदीपनया समेतोकारव्रज्या ।
----------------------------
 
ऋकारव्रज्या ।
 
नेदं स्वकटाक्षविक्षेपादिचातुर्यप्रदर्शनस्थलम् । अतोऽतिसरलतयैवात्रावस्थितिरुचि-
तेति काचित्कां काञ्चिच्छिक्षयति--
 
ऋजुना निधेहि चरणौ परिहर सखि निखिलनागराचारम् ।
इह डाकिनीति पल्लीपतिः कटाक्षेऽपि दण्डयति ॥ १४० ॥
 
ऋजुनेति । ऋजुना सरलेन, अर्थान्मार्गेण चरणौ निधेहि स्थापय । समग्रां नागर-
रीतिं त्यज । इह स्थले पल्लीपतिर्घोषाधिपः । एवं चानभिज्ञत्वं ध्वन्यते । कटाक्षसंपा-
दनेऽप्येवं चान्यकर्तव्यता दूरापास्तेति भावः । डाकिनीति बुद्ध्या दण्डयति ॥