This page has not been fully proofread.

आर्यासप्तत्वत्करस्पर्ती ।
 
नादेवास्मत्सखी विगतधैर्या सती त्वामनुसरतीति नायिकासक्तितिं सखी
 
त्वत्करस्पर्शनादेवास्मत्सखी
 
वक्ति--
 
उत्तमवनितैकगतिः
 
करीव सरसीपयः सखीधैर्यम् ।

आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन्हरसि ॥ १३८ ॥
 

 
उत्तमेति । उत्तमवनितानामेकगतिरूपः । एवं च खानुरूपान्यनायकाभावेन नायि-

कासक्तिस्त्वयि युक्ततरेति व्यज्यते । पक्ष उत्तमवनितावदेका मुख्या गतिर्यस्य । आस्क-

न्दितावूरू जङ्घे येन तेन । पक्षे संस्पृष्टस्खजङ्घेन । हस्तेनैव । पक्षे शुण्डादण्डेनैव । स्पृ-

शन्करी सरसीपय इव सख्या धैर्य हरसि । एवकारेणालिङ्गनादौ किं किं हरिष्यसीति

न विद्म इति व्यज्यते ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेतोकारव्रज्या ।
 
वक्ति-

--------------------------------------
 
ऊकारव्रज्या ।
 

 
कांचिजरठविवाहितां तदीयप्रेमराहित्यखिन्नां सख्यन्योक्त्या वक्ति -
--
 
ऊढामुनातिवाहय पृष्ठे लग्नापि कालमचलापि ।
 

सर्वेसहे कठोरत्वचः किमङ्केन कमठस्य ॥ १३९ ॥
 

 
ऊढेति । हे सर्वेसहे वसुमति । एवं चैतदीयापराधसहने तव न किंचित्कठिनमिति

व्यज्यते । अमुना कमठेनोढा सती पृष्ठे लग्नापि । अपिरवधारणे
लग्नैवेत्यर्थः । अच-

लापि । एवं च स्वतो निश्चलायाश्चाञ्चाल्याभावोपदेश: पिष्टपेषणतुल्य इति व्यज्यते ।

कालमतिवाहय । 'असि' इति पाठे यतो निश्चलासि, अत एव कालमतिवाहयेति यो-

जना । कठोरत्वचः । एवं च जरठत्वं ध्वन्यते । कमठस्याङ्केन किम् । एवं चैतजरठ.

पाणिग्रहणशालिन्या चाञ्चलशून्यया त्वया कर्कशतदङ्केच्छामपहाय सर्वमेतत्तदीयापराध-

जातमपि सोड्वावस्थेयमिति ध्वन्यते ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशती व्यङ्गथार्थदीपनया समेतोकारव्रज्या ।
 

----------------------------
 
ऋकारव्रज्या ।
 

 
नेदं स्वकटाक्षविक्षेपादिचातुर्यप्रदर्शनस्थलम् । अतोऽतिसरलतयैवात्रावस्थितिरुचि-

तेति काचित्कांचिच्छिक्षयति-
-
 
ऋजुना निधेहि चरणौ परिहर सखि निखिलनागराचारम् ।

इह डाकिनीति पल्लीपतिः कटाक्षेऽपि दण्डयति ॥ १४० ॥

 
ऋजुनेति । ऋजुना सरलेन, अर्थान्मार्गेण चरणौ निधेहि स्थापय । समग्रां नागर-

रीतिं त्यज । इह स्थले पल्लीपतिर्घोषाधिपः । एवं चानभिज्ञत्वं ध्वन्यते । कटाक्षसंपा-

दनेऽप्येवं चान्यकर्तव्यता दूरापास्तेति भावः । डाकिनीति बुद्धया दण्डयति ॥
 
Sri Gurgeshuri Digital Foundation