This page has not been fully proofread.

६४
 
काव्यमाला ।
 
स्खीकराकर्षणेन तवोत्कृष्टस्थानप्राप्तिर्जातेति व्यज्यते । तेन चैतत्कराकर्षणं स्वर्गसुखरूप

मिति । पल्लवादेराकर्षणोत्तरमोचनादूर्ध्वगमनमिति लौकिकम् ॥
 

 
त्वद्धारदर्शनेन सर्वोऽपि त्वद्विहारमाकाङ्क्षतीति सखी नायिकां वक्ति-
-
 
उच्चकुचकुम्भनिहितो हृदयं चालयति जघनलग्नाग्रः ।
 

अतिनिम्नमध्यसंक्रमदारुनिभस्तरुणि तव हारः ॥ १३५ ॥
 

 
· उच्चेति । उच्चौ यौ कुचकुम्भौ । कुम्भपदमाधारकाठिन्यद्योतनाय । तत्र निहितः ।

जघने कट्याः पुरोभागे । 'क्लीबे तु जघनं पुरः' इत्यमरः । लग्नमग्रं यस्य । अत्यन्तं

निम्नो नीचो यो मध्यस्तत्संक्रमाय यद्दारु तत्तुल्यः । निम्नदेश उल्लङ्घनाय यत्काष्ठं दीयते

तत्संक्रमदारु । तरुणि तव हारो हृदयम् । द्रष्टुरिति यावत् । चालयति चञ्चलं करोति ।

अन्योऽपि संक्रमदारुमार्गेण गच्छंश्चञ्चलताभाजनं भवतीति लौकिकम् ॥

 
रतश्रान्तेयमिति सखी नायकं वक्ति-
-
 
उल्लसितशीतदीधितिकलोपकण्ठे स्फुरन्ति तारौघाः ।

कुसुमायुधविधृतधनुर्निर्गतमकरन्दबिन्दुनिभाः ॥ १३६ ॥
 

 
उल्लसितेति । उल्लसितः । सुरतसुखादिति भावः । शीतदीधितिर्मुखचन्द्रस्तस्य मनो-

ज्ञोपकण्ठे कुसुमायुधेन विधृतं यद्धनुस्खन्निर्गता ये मकरन्दबिन्दवस्तत्सदृशास्तारौघाः

प्रस्वेदबिन्दवः स्फुरन्ति । एवं च कुसुमसमसुकुमारताशालिनीयं रतश्रान्तेति व्यज्यते ।

यद्वा जातोऽयमभिसारसमय इति सखी नायिकां वक्ति । उल्लसितः प्रादुर्भूतः शीतदी-

धितिश्चन्द्रस्तत्समीपदेशे तारौघा नक्षत्रौघा मदनधनुर्मकरन्दतुल्याः स्फुरन्ति । अर्धच-

न्द्रत्वेन धनुस्तुल्यता । एवं चैतादृशसुधाकरसाहाय्यसंपन्नः कुसुमधन्वा सज्ञः संवृत्तः ।

अतो द्रुततरमभिसरस्वेति ध्वन्यते ॥
 

 
काचिन्नायिका नायकीयविलम्बागमनजन्यं मानमासाद्य स्वल्पावशिष्टयामिन्यां नाय-

केन दूरीकृताभिमाना रात्रिः स्वल्पावशिष्टेति विज्ञायानुशोचति-
-
 

 
उपनीय प्रियमसमयविदं च मे दग्धमानमपनीय ।
 

नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥ १३७ ॥

 
उपनीयेति । हे क्षणदे रात्रि । 'त्रियामा क्षणदा क्षपा' इत्यमरः । अथ चोत्सवदे।

एवं चोत्सवदायास्तदभावसंपादनमनुचितमिति व्यज्यते । असमय विदं समयज्ञानशून्यम् ।

एवं च पूर्वरात्रावागमनमुचितमिति व्यज्यते । प्रियम् । एवं च दुर्लभ द्यते ।

उपनीय प्रापय्य । असमय विदं रात्रेरल्पावशिष्टत्वेन करणानर्हम् । अत एव दग्धं मे मानं

च । किमर्थं विलम्बितमिति हेतोः संजातमित्यर्थः । दूरीकृत्य क्रीडोपक्रम एव दूतीव।

दूतीपदं संगतिसंपादनमात्रकर्तृत्वं द्योतयति । चलितासि । दूत्यपि नायकमानीय मान-

मपनीय क्रीडारम्भ एव निर्गच्छतीति लौकिकम् । नायिका चेयं परकीया ॥
 
Sri Gurgeshwari Digital Fundarion