This page has not been fully proofread.

4
 
आर्यासप्तशती ।
 
त्वद्वदनसमीरणसौरभ्यलुभ्यन्मधुकरश्रेणिरत एतद्दंशमिषेणैव दन्तक्षतसमाधेर्विधातुं श
क्यत्वेन दन्तक्षतभयमपास्यास्य यथेच्छं चुम्बनं देहीति ध्वन्यते । अथवा नायकदूत्यु-
क्तिरियम् । भूतिकणत्रासमीलितार्धाक्षी त्यनेन चुम्बनप्राध्यौत्कण्ठ्येनैतदीयाघरोन्मुकुलन-
मपि न मयावधारितमिति व्यन्यते । इतरत्समम् ॥
 
कान्तसविधे तथाविधबालायातायातमवलोक्य कुपितां गृहिणीं नायकः समाधत्ते-
उपरि परिप्लवते मम बालेयं गृहिणि हंसमालेव ।
 
सरस इव नलिननाला त्वमाशयं प्राप्य वससि पुनः ॥ १३२ ॥
उपरीति । हे गृहिणि । एवं च गृहभारस्य त्वदधीनत्वेन त्वमेव मुख्येति व्यज्यते ।
यथा सरसः सरोवरस्योपरि हंसमाला भ्रमति, नलिननाला त्वभ्यन्तरे वसति, तथेयं
बाला ममोपरि । नान्तःकरण इत्यर्थः । परिप्लवते भ्रमति । त्वं त्वन्तःकरणं प्राप्य
वससि । एवं चैतस्या मच्चेतसि नाधिष्ठानं तव तु वर्तत इति व्यज्यते । पुनस्त्वर्थे ।
'नाला नालम्' इतिपाठान्नालाशब्द आबन्तः ॥
 
कश्चन कस्याश्चिद्यौवनलुब्धस्तदप्राप्तिखिन्नस्तां प्रति वक्ति-
उत्कम्पघर्मपिच्छिलदोःसाधिकहस्तविच्युतश्चौरः
 

 
शिवमाशास्ते सुतनु स्तनयोस्तव चञ्चलाञ्चलयोः ॥ १३३ ॥
उत्कम्पेति । हे सुतनु । एवं च कामुकेच्छायोग्यत्वं व्यज्यते । उत्कृष्टः कम्पो यस्य,
घर्मेण पिच्छिलश्च, यो दोःसाधिकस्य यामिकस्य हस्तस्तस्माद्विच्युतः । उत्कम्पपि-
च्छिलपदाभ्यां च्यवनार्हत्वं व्यज्यते । चोरस्तव चञ्चलाञ्चलयोः । एवं च दर्शनयोग्यत्वं
व्यज्यते । स्तनयोः शिवं कल्याणमाशास्ते । एवं च त्वत्कुचकुम्भदर्शन संजातसात्विकभा-
वकम्पस्वेदयामिकशिथिलकरबन्धविच्युतचोरस्यैव सुखदत्वेन तदाशास्यशिवभाजनम-
स्मदादीनां त्वत्यन्तदुःखदत्वेन शापभाजनमेव भविष्यति त्वत्कुच इति व्यज्यते । यद्वा
दुष्टवृत्त्युपजीविन एवायं ते स्तनमण्डलः सुखयिता नान्येषां समीचीनानामिति कश्चि-
द्वक्ति । अथवा त्वत्कुचकुम्भदर्शनादेव तथा भ्रान्तिरुदेति यथाग्रे स्वमरणमपि न वि-
ज्ञायत इति वक्ति । यामिकस्य केवलतस्करधारणमेव वृत्तिः । एवं च तद्धस्तात्तस्क-
रापगमनेन भाविप्रभुकोपफलाज्ञानवदेषामपि न तदनुसंधानमिति व्यज्यते । यद्वा त्वया
रात्रावभिसरणं कृतमिति कश्चिद्वक्ति ॥
 
कयाचन नायिकया कृष्यमाणाञ्चलं नायकं प्रत्यन्योक्त्या तत्सखी वक्ति-
उत्क्षिप्तबा हुदर्शितभुजमूलं चूतमुकुल मम सख्या ।
 
आकृष्यमाण राजति भवतः परमुच्चपदलाभः ॥ १३४ ॥
 
उत्क्षिप्तेति । उत्क्षिप्तो यो बाहुस्तेन दर्शितं भुजमूलं यत्र क्रियायाम् । हे चूतमुकुल ।
मुकुलपदं भ्रमराद्यभुक्त प्रतिपादनेनाङ्गनासंगतिशून्यत्वं नाय के ध्वनयति । तच्चायन्तस्पृह-
णीयत्वम् । मम संख्याकृष्यमाण भवतः परमुत्कृष्टमुच्चतरपदलाभो राजति । एवं च मत्स -