2023-03-11 14:46:13 by Pathan Vali Khan
This page has not been fully proofread.
र्ज्ञानवद्भिः । पक्षे देवैः । इतस्ततः कृष्यते । एवं चान्यैर्भुज्यमानापि न मनो निवेशयति
तेषु, किं तु तथाविधजारसंभोगतृप्त्या तस्मिन्नेवासचेति ध्वन्यते ॥
एतस्याः पतिरत्यन्तजडोऽस्ति, अतस्त्वया न भेतव्यमिति काचित् कञ्चिद्वक्ति--
उपनीय कलमकुडवं कथयति समयश्चिकित्सके हलिकः ।
शोणं सोमार्धनिमं वधूस्तने व्याधिमुपजातम् ॥ १३० ॥
उपनीयेति । कलमानां शालिविशेषाणां कुडवं पलालनिर्मितं पात्रमुपनीय समीपे
संस्थाप्य सभयः । कथमियं जीविष्यतीति धियेति भावः । हलिकः । एवं च मूर्खत्वं
व्यज्यते । चिकित्सके वैद्ये, वधूस्तने, शोणमारक्तम्, अर्धचन्द्राकारम्, उप समीपे
जातम्, व्याधिं रोगं कथयति । एवं चैतस्यैतन्नखक्षतज्ञानं नास्तीति व्यज्यते । तेन
त्वया यथेष्टमागन्तव्यं चेति । कुडवशब्दः परिमाणविशेषवाचीति केचित् ॥
कांचिदग्मिं ज्वालयन्तीं जारातिसक्त्या मानसतत्संभोगं कुर्वतीं धूर्तनिजदयितेनालो-
च्यमानां सनिह्नवं सखी निवारयति--
उन्मुकुलिताधरपुटे भूतिकणत्रासमीलितार्धाक्षि ।
धूमोऽपि नेह विरम भ्रमरोऽयं श्वसितमनुसरति ॥ १३१ ॥
उन्मुकुलितेति । उत्कृष्टमुकुलवदाचरितमधरपुटं यया तत्संबुद्धिः । वह्निप्रज्वलनाय
फूत्कारविधानादिति भावः । भूतेर्भस्मनः कणानां त्रासेन नेत्रान्ते भस्मसंबन्धभयेन मी-
लिते अर्धमक्षिणी यया तत्संबुद्धिः । एवं च विशिष्य भ्रमराज्ञानाद्धूमभ्रमवत्त्वौचित्यं
व्यज्यते । धूमोऽपीह न । अपिना व्यक्तिव्यवच्छेदः । विरम । फूत्कारकरणादिति
भावः । ननु धूमलेखा दृश्यते, तत्कथम् 'नेह धूमः' इति वदसीयाह--ते श्वसितं भ्रम-
रोऽयमनुसरति । एवं च त्वद्वदनामोदवशाद्भ्रमरः परिभ्रमति, परंतु न वास्तवो धूमः ।
अतोऽनर्थंकैतद्व्यापाराद्विरमेति भावः । इति निह्नवपुरःसरमधरोन्मुकुलननयनार्धनिमी-
लने फूत्कारभस्मसंबन्धभयेन समाधातुं शक्ये, परन्तु कथमपि श्वसितं न समाहितुं श-
क्यम् । अयं च ते भ्रमर इव भ्रमरः । यद्वा भ्रमं राति । एवं च यथार्थवार्ताग्राहक-
स्यास्य यथार्थवार्ताग्रहणे न कोऽपि विलम्बः । दयितश्च श्वसितमिदमवश्यं ज्ञास्यत्येव
तव त्वधरोन्मुकुलननयनार्धनिमीलनश्वसितानि मानससंभोगजन्यान्येव । अतो न विधे-
यमेतदिति व्यज्यते । यद्वा वह्निप्रज्वालनार्थमादिष्टां तत्समय एव जाराय चुम्बनं प्रय
च्छन्तीं नायिकामवलोक्य तत्सखी तदुत्साहवर्धनाय वक्ति--हे भूतिकणत्रासमीलितार्धा-
क्षि, इति । सोल्लुण्ठनवचनमेतत् । एवं च न भूतिकणत्रासेन तवार्धाक्षिनिमीलनम्, अपि तु
जारचुम्बनसुखोदयेनेति व्यज्यते । उन्मुकुलितम् । चुम्बनार्थमिति भावः । अधरपुटं
येन तस्मिन् । इह जारो न विरमति । चुम्बनदानार्थमिति भावः । दन्तक्षतभीतिं स्वय-
माशङ्क्य परिहरति--अपिरवधारणे । नकारोऽप्यत्रान्वेति । अयं धूमो न, किंतु भ्रमर
एव श्वसितम् । अर्थात्तव । अनुसरति । एवं च न धूमलेखा, अपि तु फूत्कारकालीन-