This page has not been fully proofread.

६२
 
काव्यमाला ।
 
र्ज्ञानवद्भिः । पक्षे देवैः । इतस्ततः कृष्यते । एवं चान्यैर्भुज्यमानापि न मनो निवेशयति

तेषु, किं तु तथाविधजारसंभोगतृप्त्या तस्मिन्नेवासचेति ध्वन्यते ॥
 

 
एतस्याः पतिरत्यन्तजडोऽस्ति, अतस्त्वया न भेतव्यमिति काचित्कंचिद्वक्ति
--
 
उपनीय कलमकुडवं कथयति समयश्चिकित्सके हलिकः ।
 

शोणं सोमार्धनिमं वधूस्तने व्याधिमुपजातम् ॥ १३० ॥
 

 
उपनीयेति । कलमानां शालिविशेषाणां कुडवं पलालनिर्मितं पात्रमुपनीय समीपे

संस्थाप्य सभयः । कथमियं जीविष्यतीति घियेति भावः । हलिकः । एवं च मूर्खत्वं

व्यज्यते । चिकित्सके वैद्ये, वधूस्तने, शोणमारक्तम्, अर्धचन्द्राकारम्, उप समीपे

जातम्, व्याधिं रोगं कथयति । एवं चैतस्यैतन्नखक्षतज्ञानं नास्तीति व्यज्यते । तेन

त्वया यथेष्टमागन्तव्यं चेति । कुडवशब्दः परिमाणविशेषवाचीति केचित् ॥
 

 
कांचिदग्मिं ज्वालयन्तीं जारातिसक्त्या मानसतत्संभोगं कुर्वतीं धूर्तनिजदयितेनालो-

च्यमानां सनिहवं सखी निवारयति-
-
 
उन्मुकुलिताधरपुटे भूतिकणत्रासमीलितार्धाक्षि ।
 

धूमोऽपि नेह विरम भ्रमरोऽयं श्वसितमनुसरति ॥ १३१ ॥

 
उन्मुकुलितेति । उत्कृष्टमुकुलवदाचरितमधरपुटं यया तत्संबुद्धिः । वह्निप्रज्वलनाय

फूत्कारविधानादिति भावः । भूतेर्भस्मनः कणानां त्रासेन नेत्रान्ते भस्मसंबन्धभयेन मी-

लिते अर्धमक्षिणी यया तत्संबुद्धिः । एवं च विशिष्य भ्रमराज्ञानाद्धूमभ्रमवत्त्वौचित्यं

व्यज्यते । धूमोऽपीह न । अपिना व्यक्तिव्यवच्छेदः । विरम । फूत्कारकरणादिति

भावः । ननु धूमलेखा दृश्यते, तत्कथम् 'नेह धूमः' इति वदसीयाह – ते श्वसितं भ्रम-

रोऽयमनुसरति । एवं च लद्वदनामोदवशामरः परिभ्रमति, परंतु न वास्तवो धूमः ।

अतोऽनर्थंकैतव्यापाराद्विरमेति भावः । इति निहवपुरःसरमधरोन्मुकुलननयनार्धनिमी-

लने फूत्कारभस्मसंबन्धभयेन समाधातुं शक्ये, परंतु कथमपि श्वसितं न समाहितुं श

क्यम् । अयं च ते भ्रमर इव भ्रमरः । यद्वा भ्रमं राति । एवं च यथार्थवार्ताप्राहक-

स्यास्य यथार्थवार्ताग्रहणे न कोऽपि विलम्बः । दयितश्च श्वसितमिदमवश्यं ज्ञास्यत्येव
 
-
 

 

तव वधरोन्मुकुलनयनार्धनिमीलनश्वसितानि मानससंभोगजन्यान्येव । अतो न विधे-

यमेतदिति व्यज्यते । यद्वा वह्निप्रज्वालनार्थमादिष्टां तत्समय एव जाराय चुम्बनं प्रय

च्छन्तीं नायिकामवलोक्य तत्सखी तदुत्साहवर्धनाय वक्ति - हे भूतिकणत्रासमीलितार्धा-

क्षि, इति । सोब्रुण्ठनवचनमेतत् । एवं चन भूतिकणत्रासेन तवार्थाक्षिनिमीलनम्, अपि तु
 

जारचुम्बनसुखोदयेनेति व्यज्यते । उन्मुकुलितम् । चुम्बनार्थमिति भावः ।
अधरपुटं

येन तस्मिन् । इह जारो न विरमति । चुम्बनदानार्थमिति भावः
दन्तक्षतभीतिं स्वय-

माशङ्कय परिहरति - अपिरवधारणे । नकारोऽध्यत्रान्वेति । अयं धूमो न, किंतु भ्रमर

एव श्वसितम् । अर्थात्तव । अनुसरति । एवं च न धूमलेखा, अपि तु फूत्कारकालीन-
-
 
Sri Gurgeshwari Digital