This page has been fully proofread once and needs a second look.

लस्य शनैः शनैर्बलं भवत्येवेत्यन्योक्त्या वक्ति । उदितः । 'अपि:' 'तुहिनगहने' इत्य-
त्रान्वेति । नेति काकुः । अथवा बहुतरशान्तिमति हृदयाकाशे न कामक्रोधादेस्तथा
प्रसर इति कश्चित् कञ्चिद्वक्ति ॥
 
उद्गमनादि व्यापारालसा त्वं किमितीति वादिनीं सखीं नायिका वक्ति--
 
उद्गमनोपनिवेशनशयनपरावृत्तिवलनचलनेषु ।
अनिशं स मोहयति मां हृल्लग्नः श्वास इव दयितः ॥ १२७ ॥
 
उद्गमनेति । स दृष्टपूर्वः, अनिशं निरन्तरम्, हृल्लग्नो हृदयमधिष्ठितः । यद्वानिशं मो-
हयतीति योजना । दयितः, उद्गमन उत्थाने, उपनिवेशने स्थितौ, शयनपरावृत्तौ पा-
र्श्वपरिवर्तने, वलने वक्राङ्गकरणे, वचनव्यापारे च मोहयति भ्रान्तिं जनयति । तत्तद्व्या-
पारासमर्थां करोतीति भावः । एवं च तथाविधनायकाप्राप्त्या ममैतादृशं दुःखं भवतीति
व्यज्यते । तेन च तदानयनार्थं यतस्वेति । हृल्लग्नः श्वास इव । हृच्छ्वासरोगेणापि गम-
नोपवेशनादिव्यापारेष्वत्यन्तं दुःखं भवति ॥
 
कयोश्चित्कटाक्षमात्रेणैव योगः संवृत्त इति काचिद्वक्ति । यद्वा न दूत्यादेरुपयोगः,
किं तु कटाक्षमात्रेणैव कार्यं कर्तुं शक्यमिति काचित् काञ्चिद्वक्ति--
 
उज्झितसौभाग्यमदस्फुटयाच्ञानङ्गभीतयोर्यूनोः ।
अकलितमनसोरेका दृष्टिर्दूती निसृष्टार्था ॥ १२८ ॥
 
उज्झितेति । उज्झितस्त्याजितः सौभाग्यस्य मदो ययैतादृशी या प्रकटयाच्ञा, अ-
नङ्गश्च । एतद्भीतयोः । स्फुटप्रार्थनायां सौभाग्यमदभङ्गः, अप्रार्थनायां मदनबाधेत्युभ-
यत्रापि भीतिरिति भावः । 'भङ्ग' इति पाठे सौभाग्यमदभङ्गं सोढ्वापि याच्ञायां कृतायां
तत्फलाभावे भीतिरित्यर्थः । अकलितं मनो याभ्यां तयोः । अविज्ञातपरस्पराभिप्राय-
योरित्यर्थः । यूनोरेका दृष्टि: परस्परावलोकनं निसृष्टार्था दूती । 'उभयोर्भावमुन्नीय
स्वयं वदति चोत्तरम् । सूत्कृष्टं कुरुते कार्यं निसृष्टार्था तु सा स्मृता ॥' एवं च कटाक्ष-
मात्रेणैव संयोगः संवृत्तः कर्तुं शक्य इति ध्वन्यते ॥
 
यद्यपीयं बहुभिर्भुज्यते तथाप्येकस्मिन्नेव जारेऽत्यन्तमासक्तेति काचित् काञ्चिद्वक्ति--
 
उत्तमभुजंगसंगमनिस्पन्दनितम्बचापलस्तस्याः ।
मन्दरगिरिरिव विबुधैरितस्ततः कृष्यते कायः ॥ १२९ ॥
 
उत्तमेति । उत्तमो यो भुजंगः सर्पः । उत्तमपदेन चित्तस्थिरीकरणयोग्यत्वं व्यज्यते ।
पक्षे षिङ्गः । तत्संगमेन बन्धनेन । पक्षे संभोगेनेति भावः । चपलत्वे हेतुः । निस्पन्दस्य
निश्चलस्य । पूर्वमिति भावः । नितम्बस्य कटकस्य । पक्षे कटिप्रदेशस्य । चापलं य-
स्मिन् । यद्वोत्तमभुजंगसंगमेन निश्चलनितम्बो यस्मिन्नेतादृशं चापलं यस्य । एवं च
बाह्यरतवत्तान्येषां नान्तररतवत्तेति भावः । तस्याः कायो देहो मन्दराचल इव विबुधै-