This page has not been fully proofread.

आर्यासप्तशती ।
 
६१
 
लस्य शनैः शनैर्बलं भवत्येवेत्यन्योक्त्या वक्ति । उदितः । 'अपि:' 'तुहिनगहने' इत्य-

त्रान्वेति । नेति काकुः । अथवा बहुतरशान्तिमति हृदयाकाशे न कामक्रोधादेस्तथा

प्रसर इति कश्चित्कंचिद्वति ॥
 

 
उद्गमनादि व्यापारालसा त्वं किमितीति वादिनीं सखीं नायिका वक्ति -
--
 
उद्गमनोपनिवेशनशयनपरावृत्तिवलनचलनेषु ।
 

अनिशं स मोहयति मां हृल्लग्नः श्वास इव दयितः ॥ १२७ ॥

 
उद्गमनेति । स दृष्टपूर्वः, अनिशं निरन्तरम्, हल्लग्नो हृदयमधिष्ठितः । यद्वानिशं मो-

हयतीति योजना । दयितः, उद्गमन उत्थाने, उपनिवेशने स्थितौ, शयनपरावृत्तौ पा-

र्श्वपरिवर्तने, वलने वक्राङ्गकरणे, वचनव्यापारे च मोहयति भ्रान्ति जनयति । तत्तव्या-

पारासमर्था करोतीति भावः । एवं च तथाविधनायकाप्राप्त्या ममैतादृशं दुःखं भवतीति

व्यज्यते । तेन च तदानयनार्थं यतस्वेति । हृल्लग्नः श्वास इव । हृच्छ्वासरो

रोगेणापि गम-

नोपवेशनादि व्यापारेष्वत्यन्तं दुःखं भवति ॥
 

 

 
कयोश्चित्कटाक्षमात्रेणैव योगः संवृत्त इति काचिद्वक्ति । यद्वा न दूत्यादेरुपयोगः,

किं तु कटाक्षमात्रेणैव कार्य कर्तुं शक्यमिति काचित्कांचिद्वक्ति-
-
 
उज्झित सौभाग्यमदस्फुटयाच्ञानङ्गभीतयोर्यूनोः ।
 

अकलितमनसोरेका दृष्टिर्दूती निसृष्टार्था ॥ १२८ ॥
 
-
 

 
उज्झितेति । उज्झितस्त्याजितः सौभाग्यस्य मदो ययैतादृशी या प्रकटयाच्या, अ-

नङ्गश्च । एतद्भीतयोः । स्फुटप्रार्थनायां सौभाग्यमदभङ्गः, अप्रार्थनायां मदनबाधेत्युभ-

यत्रापि भीतिरिति भावः । 'भङ्ग' इति पाठे सौभाग्य मदभङ्गं सोढापि याच्ञायांकृतायां

तत्फलाभावे भीतिरित्यर्थः । अकलितं मनो याभ्यां तयोः । अविज्ञातपरस्पराभिप्राय-

योरित्यर्थः । यूनोरेका दृष्टि: परस्परावलोकनं निसृष्टार्था दूती । 'उभयोर्भावमुन्नीय

स्वयं वदति चोत्तरम् । सूत्कृष्टं कुरुते कार्य निसृष्टार्था तु सा स्मृता ॥' एवं च कटाक्ष-

मात्रेणैव संयोगः संवृत्तः कर्तुं शक्य इति ध्वन्यते ॥
 

 
यद्यपीयं बहुभिर्भुज्यते तथाप्येकस्मिन्नेव जारेऽत्यन्तमासक्तेति काचित्कांचिद्वक्ति
 
--
 
उत्तमभुजंगसंगमनिस्पन्दनितम्बचापलस्तस्याः ।
 

मन्दर गिरिरिव विबुधैरितस्ततः कृप्यते कायः ॥ १२९ ॥
 
.

 
उत्तमेति । उत्तमो यो भुजंगः सर्पः । उत्तमपदेन चित्तस्थिरीकरणयोग्यत्वं व्यज्यते ।

पक्षे षिङ्गः । तत्संगमेन बन्धनेन । पक्षे संभोगेनेति भावः । चपलत्वे हेतुः । निस्पन्दस्य

निश्चलस्य । पूर्वमिति भावः । नितम्बस्य कटकस्य । पक्षे कटिप्रदेशस्य । चापलं य-

स्मिन् । यद्वोत्तमभुजंगसंगमेन निश्चलनितम्बो यस्मिन्नेतादृशं चापलं यस्य । एवं च

बाह्यरतवत्तान्येषां नान्तररतवत्तेति भावः । तस्याः कायो देहो मन्दराचल इव विबुधै-
Sri Gargeshwari Digital Foundation