2023-03-11 04:59:04 by Pathan Vali Khan
This page has not been fully proofread.
कराणां प्रकरो यया तत्संबुद्धिः । तव सौरभ्यसंभारो मा विकसतु । एवं च यद्दर्शनेन येषां
यूनामितस्ततस्त्वद्दर्शनाय भ्रमणरात्रिजागरणादि भवति तेषां दुष्टादिभिर्निवारणे क्रिय-
माणे त्वद्यौवनं निष्फलमिति व्यज्यते ॥
सखी नायिकां वक्ति-
उल्लसितभूः किमतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।
क्षुद्रापचारविरसः पाकः प्रेम्णो गुडस्येव ॥ १२४ ॥
उल्लसितभूरिति । निस्तरङ्गे अक्षिणी यस्यास्तत्संबुद्धिः, निश्चलेक्षणे । एवं च चिन्ता-
वत्त्वमभिव्यज्यते । उहसितभ्रुः सती त्वमतिक्रान्तं निवृत्तं किं चिन्तयसि । एवं च नि-
वृत्तचिन्तनमनर्थंकमिति भावः । यतो गुडस्येव प्रेम्णः पाकः परिपाकः क्षुद्रस्य नीचस्य ।
पक्षे क्षुद्राया मक्षिकाया अपचारः संबन्धस्तेन विरसो भवति । एवं च नीचमाध्यस्थे
प्रेम्णो न निर्वाह इति भावः । एवं च नीचमाध्यस्थं प्रथमतो विधाय पश्चाच्चिन्ताविधान-
मनुचितमिति द्योत्यते । क्षुद्रासक्त्युत्तरं कथमथुना विधेयमिति सचिन्तां सखी वक्ति ।
एवं च क्षुद्रसंबन्धेऽवश्यं प्रेमवैरस्यमिति ध्वन्यते । तेन च तत्परित्याग एवोचित इति
कश्चित् ॥
कस्याश्चिद्रतौत्सुक्यं काचित्कांचिद्वक्ति-
उद्दिश्य निःसरन्तीं सखीमियं कपटकोपकुटिलभूः ।
एवमवतंसमाक्षिपदाहतदीपो यथा पतति ॥ १२५ ॥
उद्दिश्येति । उद्दिश्येदं विधेयमस्तीति निःसरन्तीम् । अर्थात्केलिसदनात् । सखी-
मियं नायिका कपटकोपेन । न वास्तवेनेति भावः । कुटिले भ्रुवौ यस्याः । अवतंसं यथा-
हतो दीपो यस्मिन्कर्मणि पतत्येवमाक्षिपत् । सख्या उपरि त्यजति स्म । एवं च दी-
पनाशनेन रतौत्कण्ठ्यं व्यज्यते ॥
खल्पबलेऽपि शान्तिशालिनि प्रबलस्य न तथा तेजोऽधिकं भवतीति कश्चिदन्योक्त्या
कंचन वक्ति-
उदितोऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः ।
कठिनघृतपूरपूर्ण शरावशिरसि प्रदीप इव ॥ १२६ ॥
उदितोऽपीति । उदितोऽपि । एवं च क्षीणत्वाभावो व्यज्यते । तुहिनस्य हिमस्य ग
हनं यस्मिन् । अथवा तुहिनेन गहने निबिड आकाशप्रान्ते । तापयतीति तपन: सूर्यो
न दीप्यते नात्यन्तं प्रदीप्तो भवति । कठिनघृतपूरेण पूर्णे शरावस्य मृद्भाजनविशेषस्य
शिरसि प्रदीप इव । एवं च शीलशीतले न कस्यचित्क्रोधानेराधिक्यमिति व्यज्यते ।
तेन शान्तिप्रवणत्वमुचितमिति । यद्वा सौम्यसमुदाये क्रूरेण न किंचित्कर्तुं शक्यमिति
कश्चिदन्योक्त्या वक्ति । दीपसादृश्यार्थ प्रान्तपदम् । अथवा हीनबलसमुदायाक्रान्तप्रब-