2023-03-13 16:07:33 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
उल्लसितेति । उल्लसितं लाञ्छनं यस्य, ज्योत्स्नां कौमुदीं वर्षति, असौ सुधाकरश्चन्द्रः
स्फुरति । आसक्तः कृष्णचरणो यस्मिन् । कृष्णत्वेन लाञ्छनवत्तासादृश्यम् । प्रकटितं
क्षीरं येन । क्षीरपदेन ज्योत्स्नावत्त्वसादृश्यम् । शकट इवासुरविशेष इव । एवं चैतत्स-
मये गमने लाञ्छनमवश्यं भविष्यतीति व्यज्यते ॥
स्वमनोरथं काचित्कांचिद्वक्ति--
उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा ।
अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥ १२० ॥
उपचारेति । कितवस्य धूर्तस्य, ते पूर्वप्रसिद्धा, उपचारेण अनुनयाः प्रसादनानि ।
एवं च न वास्तवा इति भावः । यद्वोपचारा अनुनयाश्च सख्याः । एवं च तद्वचनादर-
करणयोग्यत्वं व्यज्यते । वचनेन, एवमेव मानस्त्वया संस्थाप्यः क्षणोत्तरमयमवश्यमेत्य ते
वश्यो भविष्यतीत्येवंरूपेण, उपेक्षिता अगणिताः । एवं च स्वस्यापराधशून्यत्वं ध्वन्यते ।
अधुना स निष्ठुरमपि परुषमपि । एवं च समीचीनभाषणं दूरापास्तमिति भावः । यदि
वदति तर्हि कलिकैतवात्कलहकपटाद्यामि गच्छामि । अर्थात्तं द्रष्टुमिति भावः । एवं
चाधुना तेन तथौदासीन्यमालम्बितं यथा न निष्ठुरमपि वक्ति । येन किमिति तादृशं
वदसीति वक्तुमहं गमिष्यामीति भावः । एवं चाधुना कोऽप्युपायस्तद्दर्शन इति चिन्ता-
तिशयो द्योयते ॥
सखी नायिकां वक्ति--
उषसि परिवर्तयन्त्या मुक्तादामोपवीततां नीतम् ।
पुरुषायितवैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥ १२१ ॥
उषसीति । व्रीडावति, उपवीततां नीतम् । उपवीतरूपं कृतमित्यर्थः । मुक्तादाम परि-
वर्तयन्त्याः सजीकुर्वन्त्या उषसि पुरुषायितस्य वैदग्ध्यं कैर्न कलितम् । अपि तु सर्वै-
रिति भावः । एवं चेदानीं मत्समक्षं लज्जां नाटयसि, परंतु त्वदीयतत्कालीनलज्जाशू-
न्यत्वं तथाविधमुक्तादामपरिवर्तनमेव सर्वेषां कथयतीति भावः ॥
नायिकां प्रति वक्ति--
उड्डीनानामेषां प्रासादात्तरुणि पक्षिणां पङ्क्तिः ।
विस्फुरति वैजयन्ती पवनच्छिन्नापविद्धेव ॥ १२२ ॥
उड्डीनेति । प्रासादादुड्डीनानामेकगतिविशेषशालिनाम् । हे तरुणि, पक्षिणां पङ्क्तिः पवनेन
च्छिन्ना चासावपविद्धा वैजयन्ती मालेव विशेषेण स्फुरति त्वं पश्य । एवं च नायकः
प्रासादमायातस्त्वमपि प्रयाहीति ध्वन्यते । यद्वा संकेतस्थलमिदमिति व्यज्यते ॥
अतितीक्ष्णमतिभिः संरक्ष्यमाणां कांचित्कश्चिदन्योक्त्या वक्ति--
उज्जागरितभ्रामितदन्तुरदलरुद्धमधुकरप्रकरे ।
काञ्चनकेतकि मा तव विकसतु सौरभ्यसंभारः ॥ १२३ ॥