This page has been fully proofread once and needs a second look.

देवास्यामुन्मादमात्रजनिकायां नायिकायामासक्तिर्न विधेया, किं तु गुणाद्यालोकनेनेति
व्यज्यते ॥
 
वापीसविधे कियद्भिः परिवृत्तां कांचन दृष्ट्वा कश्चिद्वक्ति--
 
ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमङ्गैः ।
नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ॥ ११६ ॥
 
ईषदिति । ईषदवशिष्टो जडिमा शैत्यम् । पक्षे जडत्वम् । यस्याः । शिशिरर्तौ समाप्तमात्र
एव । वसन्तादावित्यर्थः । अङ्गैरवयवैः । पक्षे गुणभूतैश्चिरं निर्भरमत्यन्तं नवयौवना त-
न्वीव वापी निषेत्र्यते । एवं चैतादृशा गुणभूता अपि समीचीना इति व्यज्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशती व्यङ्ग्यार्थदीपनया समेतेकारव्रज्या ।
----------------------------------
 
उकारव्रज्या ।
 
सखी नायिकां स्तौति--
 
उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचिराङ्गि ।
अचला अपि न महान्तः के चञ्चलभावमानीताः ॥ ११७ ॥
 
उल्लसितेति । उल्लसितं भ्रूरूपं धनुः । पक्षे भ्रूसदृशं धनुर्यस्य । पृथुना । आकर्णान्तेनेत्यर्थः ।
पक्षे पृथुनाम्ना राज्ञा । लोचनेन नेत्रेण । पक्ष आलोचनेन, कथमन्यथा जनावस्थितिरिति
विचारेण । रुचिराङ्गि । महान्तः श्रेष्ठाः । पक्षे महापरिमाणशालिनः । अचला अपि
चापलशून्या अपि । धीरा इत्यर्थः । पक्षे पर्वताः । के न चञ्चलभावमानीताः प्रापिताः ।
एवं च त्वत्कटाक्षविक्षेपमात्रेण के के न धैर्य परित्यज्य विह्वला जाता इति भावः ।
पक्षे महीधरव्याप्तां महीमालोक्य पृथुराज्ञेतस्ततः पर्वताः कृता इति भावः ॥
 
मत्प्रसादादेवैते धनिनः संवृत्ता इति काचिद्वक्ति-
 
उपनीय यन्नितम्बे भुजंगमुच्चैरलम्भि विबुधैः श्रीः ।
एकः स मन्दरगिरिः सखि गरिमाणं समुद्वहतु ॥ ११८ ॥
 
उपनीयेति । यस्य नितम्बे कटके । पक्षे यश्चासौ नितम्बश्च तस्मिन् । भुजंगं
सर्पम् । पक्षे विटम् । उपनीय प्रापय्य विबुधैर्देवैः । पक्षे विशेषज्ञानवद्भिः । उच्चैः श्री-
रलम्भि स मन्दरगिरिः पर्वतः । पक्षे मन्दरगिरिरिव । एकः । एवं चान्ये निरर्थका इति
भावः । गरिमाणं गौरवं समुद्वहतु । एवं च मन्नितम्बप्रसादेनैते श्रीमन्त इति व्यज्यते ।
यद्वा कस्याश्चिन्निदर्शनं प्रदर्श्य कश्चित्कांचिद्वक्ति । एवं च सैव गर्वं करोतु, तव तु
तत्करणमनर्थकमिति व्यज्यते ॥
 
नैष समयो जारसविधे गन्तुमिति काचित्कांचिद्वति--
 
उल्लसितलाञ्छनोऽयं ज्योत्स्नावर्षी सुधाकरः स्फुरति ।
आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥ ११९ ॥