This page has not been fully proofread.

५८
 
काव्यमाला ।
 
देवास्यामुन्मादमात्रजनिकायां नायिकायामासक्तिर्न विधेया, किं तु गुणाद्यालोकनेनेति

व्यज्यते ॥
 

 
वापीसविधे कियद्भिः परिवृत्तां कांचन दृष्ट्वा कश्चिद्वक्ति
--
 
ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमङ्गैः ।
 

नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ॥ ११६ ॥

 
ईषदिति । ईषदवशिष्टो जडिमा शैत्यम् । पक्षे जडत्वम् । यस्याः । शिशिरत समाप्तमात्र

एव । वसन्तादावित्यर्थः । अङ्गैरवयवैः । पक्षे गुणभूतैश्चिरं निर्भरमत्यन्तं नवयौवना त-

न्वीव वापी निषेत्र्यते । एवं चैतादृशा गुणभूता अपि समीचीना इति व्यज्यते ॥

 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशतीव्यङ्गधार्थ दीपनया समेतेकारव्रज्या
 

-------------------------------------------------
 
उकारव्रज्या ।
 
सखी नायिकां स्तौति
 
उकारव्रज्या ।
 
--
 
उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचिराङ्गि ।
 

अचला अपि न महान्तः के चञ्चलभावमानीताः ॥ ११७ ॥

 
उल्लसितेति । उल्लसितं भ्रूरूपं धनुः । पक्षे भ्रूसदृशं धनुर्यस्य । पृथुना । आकर्णान्तेनेत्यर्थः ।

पक्षे पृथुनाम्ना राज्ञा । लोचनेन नेत्रेण । पक्ष आलोचनेन, कथमन्यथा जनावस्थितिरिति

विचारेण । रुचिराङ्गि । महान्तः श्रेष्ठाः । पक्षे महापरिमाणशालिनः । अचला अपि

चापलशून्या अपि । धीरा इत्यर्थः । पक्षे पर्वताः । के न चञ्चलभावमानीताः प्रापिताः ।

एवं च त्वत्कटाक्षविक्षेपमात्रेण के के न धैर्य परित्यज्य विह्वला जाता इति भावः ।

पक्षे महीधरव्याप्तां महीमालोक्य पृथुराज्ञेतस्ततः पर्वताः कृता इति भावः ॥

 
मत्प्रसादादेवैते धनिनः संवृत्ता इति काचिद्वक्ति-

 
उपनीय यन्नितम्बे भुजंगमुच्चैरलम्भि विबुधैः श्रीः ।
 

एकः स मन्दरगिरिः सखि गरिमाणं समुद्बहतु ॥ ११८ ॥

 
उपनीयेति । यस्य नितम्बे कटके । पक्षे यश्चासौ नितम्बश्च तस्मिन् । भुजंगं

सर्पम् । पक्षे विटम् । उपनीय प्रापय्य विबुधैर्देवैः । पक्षे विशेषज्ञानवद्भिः । उच्चैः श्री-

रलम्भि स मन्दरगिरिः पर्वतः । पक्षे मन्दरगिरिरिव । एकः । एवं चान्ये निरर्थका इति

भावः । गरिमाणं गौरवं समुद्रहतु । एवं च मन्नितम्बप्रसादेनैते श्रीमन्त इति व्यज्यते ।

यद्वा कस्याश्चिन्निदर्शनं प्रदर्श्य कश्चित्कांचिद्वक्ति । एवं च सैव गर्व करोतु, तव तु

तत्करणमनर्थकमिति व्यज्यते ॥

 
नैष समयो जारसविधे
 
गन्तुमिति काचित्कांचिद्वति--

 
उल्लसितलाञ्छनोऽयं
ज्योत्स्नावर्षी सुधाकरः स्फुरति । DF
 

आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥ ११९ ॥
 
St Gargeshan Digital Fundarion