2023-03-11 05:22:47 by Pathan Vali Khan
This page has not been fully proofread.
त्यते । वालधौ पुच्छे वलते संनिहिता भवति । एवं चेयमधुनैव त्वां निग्रहीष्यतीति
नैतस्यां विश्वासो विधेय इति व्यज्यते ॥
काचिन्महत्तरनायकसङ्गगर्वभाषिणीं कांचिदुद्दिश्यान्योक्त्या कांचित्प्रति वक्ति--
इह वहति बहुमहोदधिविभूषणा मानगर्वमियमुर्वी ।
देवस्य कमठमूर्तेर्न पृष्ठमपि निखिलमाप्नोति ॥ ११३ ॥
इह वहतीति । बह्वत्यन्तं महोदधिरूपं विभूषणं यस्याः सा । पक्षे बहुर्महत्तरो यो मह
उत्सवस्तदुदधिर्विभूषणं यस्याः सा । यद्वा बह्वी महोदधेर्विभूषणरूपा । लक्ष्मीरिति
यावत् । इयमुर्वी पृथ्वी । पक्षे श्रेष्ठा । मानस्य परिमाणस्य । पक्षे सर्वोत्कृष्टताभिमानस्य ।
गर्वम् । इह भवत्समक्षम् । न मत्समक्षमिति भावः । पक्ष इह लोके । वहति । कमठ-
मूर्तेर्देवस्य कच्छपरूपभगवतो निखिलं समग्रं पृष्ठमपि नाप्नोति । एवं च सर्वशरीरव्यापनं
क्वेति भावः । एवं चैतस्यास्तत्पृष्ठावलोकनमपि दुर्लभम्, तत्र किमु वाच्यं तत्संगमादिरिति
व्यज्यते । तेन चेयं भवत्सविधे मिथ्यागर्वमुद्वहतीति ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशती व्यङ्गयार्थदीपनया समेतेकारव्रज्या ।
-----------------------------------
ईकारव्रज्या ।
कश्चित्सखायं वक्ति--
ईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्याः ।
च्युतवसनजघनभावनसान्द्रानन्देन निर्वामि ॥ ११४ ॥
ईर्ष्ययेति । तस्या निजपतिसङ्गं विचिन्तयन्नीर्ष्ययाक्षान्त्या यो रोषस्तेन ज्वलितः संतप्त-
व्श्च्युतवसनं जघनं तच्चिन्तनेन यः सान्द्रानन्दस्तेन निर्वामि संतोषं प्राप्नोमि । एवं च
तदीयतथाविधजघनध्यानादेतादृशानन्दः, तत्र किमु वाच्यस्तत्प्राप्ताविति भावः ॥
काचित् 'महत्परिगृहीतेयम्, अतस्त्वयैतस्यामासक्तिर्न कार्या' इत्यन्योक्त्या कंचिद्वक्ति--
ईश्वरपरिग्रहोचितमोहोऽस्यां मधुप किं मुधा पतसि ।
कनकाभिधानसारा वीतरसा कितवकलिकेयम् ॥ ११९ ॥
ईश्वरेति । महादेवकृताङ्गीकारेणोचितो मोहो भ्रमो यस्यैतादृशस्त्वम् । महादेवस्य ध
त्तूरपुष्पं प्रियमिति पुराणादौ प्रसिद्धम् । पक्ष ईश्वरो महांस्तदङ्गीकारेणोचितो मोह
आसक्तिर्यस्य । एवं च महत्परिप्ग्रहादेवास्यां समीचीनत्वभ्रमेणासक्तिः, न वास्तविकगुण-
वत्त्वेनेति भावः । अस्यां कलिकायाम् । मधुप । एवं च सारग्राहकत्वेन याथातथ्येन
गुणमार्गणमुचितं तवेति द्योत्यते । यद्वा भ्रान्तत्वम् । मुधा किमिति पतसि । यत इयं
कनकाभिधानमेव सारो यस्याः । एवं चार्थशून्यत्वं व्यज्यते । वीतरसाविद्यमानमकरन्दा
कितवस्य कलिका । 'उन्मत्तः कितवो धूर्तीतो धत्तूरः कनकाङ्क्षयः' इत्यमरः । यद्वा कितव
धूर्त । एवं चैतादृशाचरणमनुचित मित्यावेद्यते । कलिका । एवं च महत्तरस्यानुरागवशा-
नैतस्यां विश्वासो विधेय इति व्यज्यते ॥
काचिन्महत्तरनायकसङ्गगर्वभाषिणीं कांचिदुद्दिश्यान्योक्त्या कांचित्प्रति वक्ति--
इह वहति बहुमहोदधिविभूषणा मानगर्वमियमुर्वी ।
देवस्य कमठमूर्तेर्न पृष्ठमपि निखिलमाप्नोति ॥ ११३ ॥
इह वहतीति । बह्वत्यन्तं महोदधिरूपं विभूषणं यस्याः सा । पक्षे बहुर्महत्तरो यो मह
उत्सवस्तदुदधिर्विभूषणं यस्याः सा । यद्वा बह्वी महोदधेर्विभूषणरूपा । लक्ष्मीरिति
यावत् । इयमुर्वी पृथ्वी । पक्षे श्रेष्ठा । मानस्य परिमाणस्य । पक्षे सर्वोत्कृष्टताभिमानस्य ।
गर्वम् । इह भवत्समक्षम् । न मत्समक्षमिति भावः । पक्ष इह लोके । वहति । कमठ-
मूर्तेर्देवस्य कच्छपरूपभगवतो निखिलं समग्रं पृष्ठमपि नाप्नोति । एवं च सर्वशरीरव्यापनं
क्वेति भावः । एवं चैतस्यास्तत्पृष्ठावलोकनमपि दुर्लभम्, तत्र किमु वाच्यं तत्संगमादिरिति
व्यज्यते । तेन चेयं भवत्सविधे मिथ्यागर्वमुद्वहतीति ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशती व्यङ्गयार्थदीपनया समेतेकारव्रज्या ।
-----------------------------------
ईकारव्रज्या ।
कश्चित्सखायं वक्ति--
ईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्याः ।
च्युतवसनजघनभावनसान्द्रानन्देन निर्वामि ॥ ११४ ॥
ईर्ष्
तदीयतथाविधजघनध्यानादेतादृशानन्दः, तत्र किमु वाच्यस्तत्प्राप्ताविति भावः ॥
काचित् 'महत्परिगृहीतेयम्, अतस्त्वयैतस्यामासक्तिर्न कार्या' इत्यन्योक्त्या कंचिद्वक्ति--
ईश्वरपरिग्रहोचितमोहोऽस्यां मधुप किं मुधा पतसि ।
कनकाभिधानसारा वीतरसा कितवकलिकेयम् ॥ ११९ ॥
ईश्वरेति । महादेवकृताङ्गीकारेणोचितो मोहो भ्रमो यस्यैतादृशस्त्वम् । महादेवस्य ध
त्तूरपुष्पं प्रियमिति पुराणादौ प्रसिद्धम् । पक्ष ईश्वरो महांस्तदङ्गीकारेणोचितो मोह
आसक्तिर्यस्य । एवं च महत्परि
वत्त्वेनेति भावः । अस्यां कलिकायाम् । मधुप । एवं च सारग्राहकत्वेन याथातथ्येन
गुणमार्गणमुचितं तवेति द्योत्यते । यद्वा भ्रान्तत्वम् । मुधा किमिति पतसि । यत इयं
कनकाभिधानमेव सारो यस्याः । एवं चार्थशून्यत्वं व्यज्यते । वीतरसाविद्यमानमकरन्दा
कितवस्य कलिका । 'उन्मत्तः कितवो धूर्
धूर्त । एवं चैतादृशाचरणमनुचित