This page has not been fully proofread.

आर्यासप्तशती ।
 
त्यते । वालधौ पुच्छे वलते संनिहिता भवति । एवं चेयमधुनैव त्वां निग्रहीष्यतीति

नैतस्यां विश्वासो विधेय इति व्यज्यते ॥
 
५७
 

 
काचिन्महत्तरनायकसङ्गगर्वभाषिणीं कांचिदुद्दिश्यान्योक्त्या कांचित्प्रति वक्ति
--
 
इह वहति बहुमहोदधिविभूषणा मानगर्वमियमुर्वी ।
 

देवस्य कमठमूर्तेर्न पृष्ठमपि निखिलमाप्नोति ॥ ११३ ॥
 

 
इह वहतीति । बह्वत्यन्तं महोदधिरूपं विभूषणं यस्याः सा । पक्षे बहुर्महत्तरो यो मह

उत्सवस्तदुदधिविभूषणं यस्याः सा । यद्वा बह्वी महोदधेर्विभूषणरूपा । लक्ष्मीरिति

यावत् । इयमुर्वी पृथ्वी । पक्षे श्रेष्ठा । मानस्य परिमाणस्य । पक्षे सर्वोत्कृष्टताभिमानस्य ।

गर्वम् । इह भवत्समक्षम् । न मत्समक्षमिति भावः । पक्ष इह लोके । वहति । कमठ-

मूर्तेर्देवस्य कच्छपरूपभगवतो निखिलं समग्रं पृष्ठमपि नाप्नोति । एवं च सर्वशरीरव्यापनं

क्वेति भावः । एवं चैतस्यास्तत्पृष्ठावलोकनमपि दुर्लभम्, तत्र किमु वाच्यं तत्संगमादिरिति

व्यज्यते । तेन चेयं भवत्सविधे मिथ्यागर्वमुद्वहतीति ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेतेकारव्रज्या ।
 

-----------------------------------
 
ईकारव्रज्या ।
 

 
कश्चित्सखायं वक्ति-
-
 
ईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्याः ।

च्युतवसनजघनभावनसान्द्रानन्देन निर्वामि ॥ ११४ ॥
 

 
ईर्ष्यति । तस्या निजपतिसङ्गं विचिन्तयन्नीर्ष्ययाक्षान्त्या यो रोषस्तेन ज्वलितः संतप्त-

व्युतवसनं जघनं तच्चिन्तनेन यः सान्द्रानन्दस्तेन निर्वामि संतोषं प्राप्नोमि । एवं च

तदीयतथाविधजघनध्यानादेतादृशानन्दः, तत्र किमु वाच्यस्तत्प्राप्ताविति भावः ॥

 
काचित् 'महत्परिगृहीतेयम्, अतस्त्वयैतस्यामासक्तिर्न कार्या' इत्यन्योक्त्या कंचिद्वक्ति-
-
 
ईश्वरपरिग्रहोचितमोहोऽस्यां मधुप किं मुधा पतसि ।
 

कनकाभिधानसारा वीतरसा कितवकलिकेयम् ॥ ११९ ॥
 

 
ईश्वरेति । महादेवकृताङ्गीकारेणोचितो मोहो भ्रमो यस्यैतादृशस्त्वम् । महादेवस्य ध

त्तूरपुष्पं प्रियमिति पुराणादौ प्रसिद्धम् । पक्ष ईश्वरो महांस्तदङ्गीकारेणोचितो मोह

आसक्तिर्यस्य । एवं च महत्परिप्रहादेवास्यां समीचीनत्वभ्रमेणासक्तिः, न स्तविकगुण-

वत्त्वेनेति भावः । अस्यां कलिकायाम् । मधुप । एवं च सारग्राहकत्वेन याथातथ्येन

गुणमार्गणमुचितं तवेति द्योत्यते । यद्वा भ्रान्तत्वम् । मुधा किमिति पतसि । यत इयं

कनकाभिधानमेव सारो यस्याः । एवं चार्थशून्यत्वं व्यज्यते । वीतरसाविद्यमानमकरन्दा

कितवस्य कलिका । 'उन्मत्तः कितवो धूर्ती धत्तूरः कनकाङ्क्षयः' इत्यमरः । यद्वा कितव

धूर्त । एवं चैतादृशाचरणमनुचित मित्यावेद्यते । कलिका । एवं च महत्तरस्यानुरागवशा-
Si Gurgeshwari Digital Foundation.
 
आ० स०६