This page has been fully proofread once and needs a second look.

अन्याङ्गनाविलोकनजन्यमानवतीं नायिकां नायको यथासिद्धकुतूहलेन प्रसादयति--
 
इक्षुर्नदीप्रवाहो द्यूतं मानग्रहश्र हे सुतनु ।
भ्रूलतिका च तवेयं भङ्गे रसमधिकमावहति ॥ ११० ॥
 
इक्षुरिति । हे सुतनु, इक्षुः, नदीप्रवाहः, द्यूतम्, मानग्रहश्च, तवेयं भ्रूलतिका च, भङ्गे-
ऽधिकं रसमावहति । अत्र भङ्गरसशब्दौ क्रमेण दन्तचर्वणीयत्वातिशयसेत्वादिबन्धनप-
राजयपरित्यागवक्रतामृष्टतातिशयजलाधिक्यक्रीडनाधिकोत्साहकषायितवस्त्रानुरागाति-
शयतुल्यप्रीत्यतिशयचमत्कारविशेषार्थकौ । एवं च त्वदीयकुटिलभ्रुकुटिदर्शनेन ममाधिकं
सुखमुत्पद्यत इति व्यज्यते । यद्वा तव मानग्रहः, भ्रूलतिका च । एवं च मानभङ्गे
मिथ्या भ्रूकुटिलता सुखावहा, न वास्तवकोपेन विहितेति ध्वन्यते । 'हे' इति पदस्थाने
'ते' इति पाठे सुतनु, इक्षुः, नदीप्रवाहः, द्यूतं च, भङ्गेऽधिकं रसमावहति । अत्रामुक-
स्येति विशेषानुपादानात्सर्वस्येत्यर्थो लभ्यते । भङ्गरसशब्दावत्र प्रागुक्तार्थौ । ते मानग्रहो
भ्रूलतिका च भङ्गे । तरङ्गवाचिना भङ्गपदेनाधिक्यं लक्ष्यते । तेन चौद्धयं व्यज्यते । एवं
चाधिक्ये कौटिल्य इत्युभयत्रार्थः । अधिकं रसं शोभोत्कर्षं तवावहति । एवं चैतादृशा-
तिशयितमानकुटिलभ्रुकुटिकरणं च तवोचितं नान्यासामिति व्यज्यत इति सनिन्दं
नायकसखी मानिनीं वक्तीत्यर्थः । ग्रहपदेन चावश्यप्रतीकारकरणयोग्यत्वं ध्वन्यते ॥
 
काचिन्नायिकां वक्ति--
 
इन्दोरिवास्य पुरतो यद्विमुखी सापवारणा भ्रमसि ।
तत्कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥ १११ ॥
 
इन्दोरिति । इन्दोरिव । एवं च संतापापनोदकत्वम्, तेन चालिङ्गार्हत्वं ध्वन्यते ।
अस्य नायकस्य पुरतोऽग्रे यद्येन विमुखी परिवर्तितवदना । पक्षे पराङ्मुखी । सापवारणा
कृतावरणा । पक्षेऽन्तर्धिसहिता । चन्द्रान्तर्गतत्वादिति भावः । भ्रमसीतस्ततो गच्छसि ।
पक्षे चन्द्रचलनादिति भावः । त्वया छाययेव किं नु दुरितं कृतं तत्कथय । एवं च
सर्वाङ्गीणसंतापापनोदकसंमुखनायकपुरतो वैमुख्यचलनव्यवधानसंपादनादि प्राक्तनपाप-
जनितमिति भावः । एवं चैतत्सर्वं परित्यज्य विगतभीर्नायकमालिङ्गयेति व्यज्यते ॥
 
कांचित्कंचिन्निग्रहीतुमुद्यतामालोक्य तं प्रति कश्चिदन्योक्त्या वदति--
 
इह कपटकुतुकतरलितदृशि विश्वासं कुरङ्ग किं कुरुषे ।
तव रभसतरलितेयं व्याधवधूर्वालधौ वलते ॥ ११२ ॥
 
इहेति । कपटजन्यकुतुकेन तरलिता चञ्चलतां प्रापिता । अन्यत्र स्थापितेत्यर्थः । एवं
च न कथितपदत्वम् । दृग्ययैतादृश्याम् । इहैतस्याम् । एवं च विश्वासार्हत्वं ध्वन्यते ।
हे कुरङ्ग हरिण । एवं च ज्ञानानर्हत्वं ध्वन्यते । विश्वासम् । इयं कुतुकासक्तदृगिति
धियेति भावः । किं कुरुषे । तव रभसेन सरलतया तरलतां चञ्चलतां प्राप्ता । एवं च
त्वत्सरलतैव तव बाधिकेति भावः । इयं व्याधवधूः । एवं च हिंसकत्वातिशयो द्यो-