This page has been fully proofread once and needs a second look.

सुरसा । एवं च रसातिशयवत्त्वादेवैतादृशाचरणप्रवणत्वमिति द्योत्यते । प्रियसंगमहेतुकं
मङ्गलं गायति । नायिका चेयं परकीया ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशती व्यङ्ग्यार्थदीपनया समेताकारव्रज्या ।
---------------------------------
 
इकारव्रज्या ।
 
रात्रिसुरतश्रमसुप्तां नायिकां सखी शिक्षयितुं वक्ति--
 
इयमुद्गतिं हरन्ती नेत्रनिकोचं च विदधती पुरतः ।
न विजानीमः किं तव वदति सपत्नीव दिननिद्रा ॥ १०७ ॥
 
इयमिति । इयं तव दिननिद्रा सपत्नीवोद्गतिं गमनम् । पक्षे उत्कृष्टताम् । हरन्ती ।
नेत्रनिकोचं नयनसंकोचम् । आलस्यादिति भावः । पक्षे नेत्रविकारम् । द्वेषादिति
भावः । विदधती पुरतः । तवेति भावः । एवं च त्वद्भीतिशून्यत्वं द्योत्यते । किं वदतीति
न विजानीमः । एवं च यथा सपत्नी दुश्चरितवत्तामारोपयितुं समर्था तथेयं तव दिननिद्रा,
इत्यतो मुञ्चैनामिति ध्वन्यते । यद्वा नेत्रसंकोचम्, अर्थात्तव, कुर्वती । सपत्न्याः प्रौढि-
वंशाद्भयेनेति भावः।तव दिननिद्रा पुरतोऽग्रे किं वदति वदिष्यति । तन्न विद्म इत्यर्थः ।
एवं चेदानीं यथातथा समाधातुं शक्यमग्रे त्वनिष्टमेवानया भावीति ध्वन्यते । नायिका
चेयं परकीया ॥
 
इदमुभयभित्तिसंततहारगुणान्तर्गतैककुचमुकुलम् ।
गुटिकाधनुरिव बालावपुः स्मरः श्रयति कुतुकेन ॥ १०८ ॥
 
इदमिति । इदमुभयभित्तावुभयपार्श्वे संततहारगुणस्तदन्तर्गत एककुचमुकुलो यस्मि-
स्तद्बालाया मुग्धाया वपुर्गुटिकाधनुरिव गुटिकाशस्त्रमिव स्मरः श्रयति कुतुकेन । वैक-
क्षिकमालान्तर्गतकुचमुकुलत्वादिति भावः ॥
 
व्यवायस्थैर्याय कान्तचित्तं व्याक्षेप्तुं नायिका वक्ति--
 
इह शिखरिशिखरावलम्बिनि विनोददरतरलवपुषि तरुहरिणे ।
पश्याभिलपति पतितुं विहगी निजनीडमोहेन ॥ १०९ ॥
 
इहेति । इह शिखरी वृक्षः । 'तरुशैलौ शिखरिणौ' इत्यमरः । तच्छिखरावलम्बिनि ।
क्वचित् 'शिखा' इति पाठः । विनोदेन दरमीषत्तरलं चञ्चलं वपुर्यस्य तस्मिंस्तरुहरिणे
शाखामृगे । अत्रोभयपदयोः परिवृत्तिसहत्वम् । विहगी निजं यन्नीडं स्थानम्। 'कुलायो
नीडमस्त्रियाम्' इत्यमरः । तद्भ्रमेण पतितुमभिलषति । इदं पश्य । एवं च व्यवायस्थैर्या-
यैतादृग्ध्यानं विधेयमिति व्यज्यते । उक्तं च – 'वानरं चपलं ध्यायेद्वृक्षशाखावलम्बिनम्,
इति । अन्यत्रापि – 'शाखामृगमतिचपलं क्षितिरुहनिहितं विचिन्तयेत्प्राज्ञः । अपि मणि-
मुखपर्यन्तप्राप्तं बीजं हि नो गलति ॥' इति ॥