This page has not been fully proofread.

आधायेति । दुग्धस्य कलशे पात्रे मन्थानमाधाय श्रान्ता दोर्लता यस्याः सा गोपी
गोपस्य स्त्री । एवं च विवेकविधुरत्वं ध्वन्यते । एवमपि न प्राप्तः पारिजातवृक्षो यया सा
दैवे दोषं निवेशयति स्थापयति । एवं च यथा देवैः क्षीरसमुद्रमथनेन पारिजातो लब्धः
स च कृष्णेन सत्यभामाया दत्तस्तर्हि मयापि क्षीरं निर्मथ्य तं संप्राप्य सत्यभामाधिकया
भवितव्यमिति कृते भाण्डक्षीरमथने तदप्राप्त्या दैवं निन्दति, न स्वमौर्ख्यमिति भावः ।
एवं च यतो यद्भविष्यतीति निर्णयस्तत्रैव तदर्थं प्रवृत्तिरुचितेति ध्वन्यते । यद्वैतस्मा-
न्मम सुखं भविष्यति न वेत्यनवधार्य कस्मिंश्चिदासक्तिं विधाय तदप्राप्त्या दैवविनिन्दिकां
काचिदन्योक्त्या वक्ति । यत्तु पारिजातं नवनीतमित्याह तत्तथा कोषाद्यश्रवणादसम्यक् ॥
 
कश्चिन्नायिकासाधुत्वं स्वस्य सखायं वक्ति--
 
आस्तां मानः कथनं सखीषु वा मयि निवेद्यदुर्विनये ।
शिथिलितरतिगुणगर्वा ममापि सा लज्जिता सुतनुः ॥ १०५ ॥
 
आस्तामिति । निवेदितुं योग्यो दुर्विनयो यस्यैतादृशेऽपि मयि सति । एवं चावश्यक-
थनीयत्वमपराधे ध्वन्यते । मान आस्ताम् । न कृत इत्यर्थः । न केवलं मानासंपादनम् ।
अपि तु सखीषु । सखीपदं कथनार्हतां द्योतयति । कथनं वा । मदपराधस्येति भावः ।
न कृतमित्यर्थः । शिथिलितो रतिसंबन्धिगुणानां गर्वो यया सा सुतनुर्मम लजिता ।
एवं च यदि मयि गुणाः स्युस्तदानेनान्यत्रासक्तिः कथं कर्तुं शक्येति धिया संजात-
लजा मां प्रत्यभूत, अतो न मानमकरोत्, न वा सखीष्वकथयदिति भावः । अथवा
सापराधत्वेन मम लज्जायोग्यत्वेऽपि सैव स्वस्मिन् गुणाभावशङ्कया सलज्जा न मानादिक-
मकरोदिति भावः । अथवा ममापीति यथास्थित एवापिः । एवं चान्यं प्रति लज्जाकर-
णादीति किमपूर्वमिति भावः । यद्वा निवेदयितुं योग्यो मय्येव मदीयो दुर्विनयः। सो-
ऽपि लज्जया मां प्रत्यपि नोक्तस्तत्र का वार्तान्यकथनादेरिति भावः ॥
 
काचित्प्रियागमनोत्सवनैमित्तिकं तण्डुलाद्युज्ज्वलपिष्टद्रवलिप्तकरतलादिना चित्रकर-
णमङ्गलगानरूपमातर्पणविधानमन्यजनभीत्या स्नानावसर एवावर्तादिच्छद्मना करोतीति
काचित्कांचिद्वक्ति--
 
आवर्तैरातर्पणशोभां डिण्डीरपाण्डुरैर्दधती ।
गायति मुखरितसलिला प्रियसंगममङ्गलं सुरसा ॥ १०६ ॥
 
आवर्तैरिति । डिण्डीरपाण्डुरैः फेनश्वेतैः । 'डिण्डीरोऽब्धिकफः फेनः' इत्यमरः । एवं
च तण्डुलादि द्रवसाजात्यं ध्वन्यते । आवर्तैः । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । एवं
च करतलकृतचित्रसाजात्यं व्यज्यते । आतर्पणस्य शोभां दधती कुर्वती । मुखरितं
सशब्दं कृतं सलिलं जलं यया । एवं चैतद्ध्वनिना स्वगानकरणतिरोधानमावेद्यते । यद्वा
सलिलध्वनिमेव गानत्वेन संपादयतीत्यत्यन्तजनभीतिमत्त्वमावेद्यते । तच्चात्यन्तचातुरीम् ।