This page has not been fully proofread.

लमगोपिकायाः पथिकतरुणासक्तौ स्वयं कलमभक्षणं सुखेन करिष्यामीति धियेति भावः ।
एवं च स्वार्थप्रवणतयानेनैतस्या दौत्यं क्रियत इति व्यज्यते । यद्वा मृगोऽपि स्वार्थमेता-
दृशं कर्म कर्तुं जानाति, तत्र किं वाच्यं मनुष्यरूपायास्तवेति । नाहमिदं कर्म जानामीति
वादिनीं कांचन प्रलोभनपुरःसरं काचिद्वक्ति । यद्वा यस्या एव स्वार्थेच्छा सैव मदीयं
दौत्यं करिष्यतीति काचित्कांचिद्दूतीं वक्ति । अथवैतमेतस्या दर्शयित्वासक्तिमुत्पाद्यै-
तस्या धनमनेन भुज्यत इति कश्चित्कांचिद्वक्ति । यद्वा मृगेणापि गोपिकाकलमभक्षणे-
न तरुणसंगमरूपोपकारस्तस्याः क्रियते, त्वया तु न तथेति काचिद्दूतीमुपालभते ।
अथवा स्वार्थपुरःसरतयैतादृशं कर्तुं शक्यमिति कांचिदन्योक्त्या वदति ॥
 
किं त्वयैतादृशमकारि येनायमधुनान्यादृशं वक्तीति वादिनीं सखीं नायिका वक्ति--
 
आसीदेव यदार्द्रः किमपि तदा किमयमाहतोऽप्याह ।
निष्ठुरभावादधुना कटूनि सखि रटति पटह इव ॥ १०२ ॥
 
आसीदिति । अयं नायको यदार्द्र एव मद्विषयकरसवानेवासीत्तदाहतोऽपि किमपि
किमाहावादीत् । नेत्यर्थः । अयमेवेति योजना वा । एवं च सर्वमेतत्तवैव प्रत्यक्षमिति
व्यज्यते । 'एषः' इत्यपि पाठ: । सखि, अधुना निष्ठुरभावात्प्रेमाभावात् । पक्षे शुष्क-
त्वात् । कटूनि रटति पटह इव । 'आनकः पटहोऽस्त्री' इत्यमरः । एवं च न ममाप-
राधः, किं त्वयमेव निष्ठुरत्वादेतादृशं वक्तीति ध्वन्यते । पटहोऽप्यार्द्रस्ताडितो न शब्दं
जनयति, शुष्कस्तु जनयति तद्वदिति भावः ॥
 
त्वच्चेष्टितमिदमाकर्ण्य नायिका त्वां किं किं न करिष्यतीति वादिनीं नायिकासखीं
नायको वक्ति--
 
आज्ञाकरश्च ताडनपरिभवसहनश्च सत्यमहमस्याः ।
न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ॥ १०३ ॥
 
आज्ञाकर इति । यद्वा यदि त्वमेतस्याः सर्वदाज्ञाकार्यसि तर्हीयं कथं मुखरा भविष्य-
तीति वादिनीं नायको वक्ति । आज्ञां करोत्येतादृशः । ताडनम्, परिभवस्तिरस्कारः ।
ताडनापेक्षया तिरस्कारे दुःसहत्वं ध्वन्यते । यद्वा ताडनजन्यपराभवः । एवं च वचनज-
न्यपराभवस्याकिंचित्करत्वं व्यज्यते । एतत्सहनः । अस्या नायिकायाः । दूरस्थत्वेऽपि
प्रत्यक्षवन्निर्देशेन सर्वदा तद्गतमनस्कत्वं तेनान्यादृशाचरणाभावो व्यज्यते । अहमस्मि ।
शीलेन स्वभावेन शीतला सौम्या । एवं च स्वभावस्य दूरीकर्तुमशक्यत्वेन मदपराधनि-
वेदकस्य वृथा श्रमवत्तेति व्यज्यते । तेन त्वया तत्र न किमपि वाच्यमिति । इयं प्रिये -
तरदप्रियं वक्तुमपि । एवं च कर्तुं नेति किमु वाच्यमिति भावः । न वेद ॥
 
एतस्मादिदं भविष्यति न वेत्यविचार्य कार्यकारिणमन्योक्त्या कश्चिद्वक्ति--
 
आधाय दुग्धकलशे मन्थानं श्रान्तदोर्लता गोपी।
अप्राप्तपारिजाता दैवे दोषं निवेशयति ॥ १०४ ॥