2023-03-11 03:41:46 by Pathan Vali Khan
This page has not been fully proofread.
यस्त्वद्योतनेन, कामिन्यामतिकोमलाङ्गीत्वं द्योत्यते । प्रकृत्या स्वभावेन । पक्षे प्रजाभिः ।
कोमलं मृदु । पक्षे सौम्यम् । सुभगे सौभाग्यशालिनि तव भुजमृणालम् । स्वभावको-
मलत्वेऽपि मृणालरूपत्वप्रतिपादनेनातिकोमलत्वं ध्वन्यते । यद्वा संतापनोदकत्वमात्रमत्र ।
क्रेकेन धन्येन प्ग्राह्यम् । मदनस्य राज्यमिव । एवं च यस्य तव पाणिस्पर्शो भविता स
मदनमहीपतिरेवेति व्यज्यते । तेन च त्वं रतिरूपेति । यद्वा बलादाकृष्टकरां सामान्यव-
नितामवलोक्य तत्सखी वक्ति । भग्नकटकमित्यनेन वलयार्थमेतस्माद्वसुप्ग्राह्यमिति व्य-
ज्यते। धन्येन धनवतेत्यर्थः । केन सुखेनप्ग्रात्ह्यम् । एवं चान्येन न ग्रहीतुं शक्यमिति
भाव इत्यर्थः । अविवाहितां कांचित्काचिद्वक्ती त्यपि ॥
कश्चित्कांचिद्वक्ति--
आरुह्य दूरमगणितरौद्रक्लेशा प्रकाशयन्ती स्वम् ।
वातप्रतीच्छनपटी वहित्रमित्र हरसि मां सुतनु ॥ ९९ ॥
आरुह्येति । दूरमारुह्य । प्रासादशिखरमिति भावः । अगणितो रौद्रो दुःसहः । पक्षे
धर्मसंबन्धी क्लेशो यया । स्वमात्मानं प्रकाशयन्ती मां सुतनु हरसि स्वाधीनतां नयसि ।
वातप्रतीच्छनपटी वातानुकूलगमनजनकं वस्त्रं वहित्रमिव नावमिव । वहित्रपदेन सहन-
शीलत्वमावेद्यते । एवं चलत्वद्दर्शनेनाहमितः सत्वरमागत एवेत्यवेहीति व्यज्यते ॥
केषांचिदाश्रयेण कंचिदपकर्तुमुद्यतं कश्चिदन्योक्त्या वक्ति--
आयासः परहिंसा वैतंसिकसारमेय तव सारः ।
त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥ १०० ॥
आयास इति । हे वैतंसिकस्य मांसिकस्य । एवं चैतस्य मांसदानमशक्यमिति
व्यज्यते । 'वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम्' [इत्यमरः] । सारमेय कुक्कुर ।
आयासः श्रमः, परस्य हिंसा प्राणनिर्गमफलको व्यापारः, तव सारः सारभूतम् । ना-
न्यदिति भावः । एतदेवाह - त्वामपसार्य दूरीकृत्य । बलात्कारादिति भावः । एष कु-
रङ्गो हरिणः । एवं च कृपार्हत्वं ध्वन्यते । अधुनैव । एवं च पश्चात्प्रतीकाराभावो व्य-
ज्यते । अन्यैर्मोमांसिकानुयायिभिर्विभाज्यः । विभज्य ग्राह्य इत्यर्थः । एवं चैतादृशानुचित-
कार्यकरणे तव न किंचित्फलम्, प्रत्युत दुःखादीतीदृशं न विधेयमिति व्यज्यते ॥
कश्चन कस्यचिदम्ग्रे कस्यचिद्दौत्यमन्योक्त्या वक्ति–
आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानम् ।
उपकलमगोपि कोमलकलमावलिकवलनोत्तरलः ॥ १०१ ॥
आनयतीति । कोमला ये कलमास्तेषामावलयस्तासां कवलन उत्तरल उत्क-
ण्ठितो हरिण आत्मानं प्रापयन्निव । न वास्तवमित्यर्थः । एवं च धूर्तत्वं व्यज्यते । पथि-
कतरुणम् । पथिकपदेन विरहखिन्नत्वं द्योयते । तरुणपदेन कलमगोपिकास्पृहणीयलंत्वं
ब्यज्यते । कलमाः शालिविशेषास्तद्रक्षणकर्ज्त्र्याः सविधे आनयति प्रापयति । एवं च क-
कोमलं मृदु । पक्षे सौम्यम् । सुभगे सौभाग्यशालिनि तव भुजमृणालम् । स्वभावको-
मलत्वेऽपि मृणालरूपत्वप्रतिपादनेनातिकोमलत्वं ध्वन्यते । यद्वा संतापनोदकत्वमात्रमत्र ।
मदनमहीपतिरेवेति व्यज्यते । तेन च त्वं रतिरूपेति । यद्वा बलादाकृष्टकरां सामान्यव-
नितामवलोक्य तत्सखी वक्ति । भग्नकटकमित्यनेन वलयार्थमेतस्माद्वसु
ज्यते। धन्येन धनवतेत्यर्थः । केन सुखेन
भाव इत्यर्थः । अविवाहितां कांचित्काचिद्वक्ती
कश्चित्कांचिद्वक्ति--
आरुह्य दूरमगणितरौद्रक्लेशा प्रकाशयन्ती स्वम् ।
वातप्रतीच्छनपटी वहित्रमित्र हरसि मां सुतनु ॥ ९९ ॥
आरुह्येति । दूरमारुह्य । प्रासादशिखरमिति भावः । अगणितो रौद्रो दुःसहः । पक्षे
धर्मसंबन्धी क्लेशो यया । स्वमात्मानं प्रकाशयन्ती मां सुतनु हरसि स्वाधीनतां नयसि ।
वातप्रतीच्छनपटी वातानुकूलगमनजनकं वस्त्रं वहित्रमिव नावमिव । वहित्रपदेन सहन-
शीलत्वमावेद्यते । एवं च
केषांचिदाश्रयेण कंचिदपकर्तुमुद्यतं कश्चिदन्योक्त्या वक्ति--
आयासः परहिंसा वैतंसिकसारमेय तव सारः ।
त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥ १०० ॥
आयास इति । हे वैतंसिकस्य मांसिकस्य । एवं चैतस्य मांसदानमशक्यमिति
व्यज्यते । 'वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम्' [इत्यमरः] । सारमेय कुक्कुर ।
आयासः श्रमः, परस्य हिंसा प्राणनिर्गमफलको व्यापारः, तव सारः सारभूतम् । ना-
न्यदिति भावः । एतदेवाह - त्वामपसार्य दूरीकृत्य । बलात्कारादिति भावः । एष कु-
रङ्गो हरिणः । एवं च कृपार्हत्वं ध्वन्यते । अधुनैव । एवं च पश्चात्प्रतीकाराभावो व्य-
ज्यते । अन्यैर्
कार्यकरणे तव न किंचित्फलम्, प्रत्युत दुःखादीतीदृशं न विधेयमिति व्यज्यते ॥
कश्चन कस्यचिद
आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानम् ।
उपकलमगोपि कोमलकलमावलिकवलनोत्तरलः ॥ १०१ ॥
आनयतीति । कोमला ये कलमास्तेषामावलयस्तासां कवलन उत्तरल उत्क-
ण्ठितो हरिण आत्मानं प्रापयन्निव । न वास्तवमित्यर्थः । एवं च धूर्तत्वं व्यज्यते । पथि-
कतरुणम् । पथिकपदेन विरहखिन्नत्वं द्योयते । तरुणपदेन कलमगोपिकास्पृहणीय
ब्यज्यते । कलमाः शालिविशेषास्तद्रक्षणकर्