This page has been fully proofread once and needs a second look.

यत्वं च क्रमेणोभयत्र ध्वन्यते । मदीयं मनः कर्षति । एवं च न ममापराध इति भावः ।
ह्रदमत्स्यम् । ह्रदपदेन स्वस्मिन्गाम्भीर्यमावेद्यते । बडिशरज्जुरिव । 'बडिशं मत्स्य वेधनम्'
इत्यमरः । एवं च यथा बडिशरज्ज्वाकृष्टमत्स्यस्य ह्रदावस्थितिरसंभाविनी तथा प्रियादृ-
ट्याकृष्टस्य मच्चेतसोऽप्यवस्थितिरिति व्यज्यते । तेन च ज्ञानशून्यत्वं तेनापि त्वदुपदेशा-
पात्रमहमिति ॥
 
नायिकासखी नायकं वक्ति--
 
आलप यथा यथेच्छसि युक्तं तव कितव किमपवारयसि ।
स्त्रीजातिलाञ्छनमसौ जीवितरङ्का सखी सुभग ॥ ९६ ॥
 
आलपेति । यथा यथेच्छसि तथालप त्वन्मनसि यदायाति तद्यथेष्टं वद । वाच्यावाच्य-
विचारं मा कृथा इति भावः । इदं युक्तं तव । न ममेति भावः । यद्वा नान्यस्य समीची-
नस्य । कितव धूर्त । एवं चैतादृशवक्तृतायोग्यत्वं तवेति भावः । किमपवारयसि गो-
पयसि । दुष्टो नेति वदसीति भावः । यद्वा यथा समाधातुं शक्यं तथा वचनरचनां कुरु ।
एवं च तत्र नास्माकमास्थेति भावः । एवं च गोपनेन किं सर्वमेवास्माभिस्त्वद्वृत्तं ज्ञायत
इति व्यज्यते । स्त्रीमात्रकलङ्कभूतेयं मत्सखी । एवं चान्याभिर्नैवंविधं सोढुं शक्यमिति
भावः । जीवितार्थं रङ्का दीना । एवं च त्वदनालोकनेन तस्या मरणमेव भावीति भावः ।
सुभग । कथमन्यथेदृशप्रियाप्राप्तिरिति भावः । एवं चेयं जीवितमात्राभिलाषिणी त्वदीय-
मेतादृशदुश्चेष्टितं सहते, नान्ययैवं सह्यमिति स्वसख्यासक्तिर्नायके तस्य चेतरनायका -
धिक्यं व्यज्यते । तेन तथाविधायां तस्यां तवैतादृशाचरणमनुचितमिति ॥
 
काचिन्नायिका नायकं प्रत्यन्योक्त्या वक्ति--
 
आस्वादितोऽसि मोहाद्बत विदिता वदनमाधुरी भवतः ।
मधुलिप्तक्षुर रसनाछेदाय परं विजानासि ॥ ९७ ॥
 
आस्वादितोऽसीति । मधुलिप्तपदेनोपरितना माधुर्यवत्ता व्यज्यते । क्षुरपदेन क्षत-
जननयोग्यत्वं ध्वन्यते । मोहाद्भ्रमादास्वादितोऽसि । भवतो वदनस्य माधुरी । बत खेदे ।
विदिता । एतदेवाह – रसनाछेदाय परं विजानासि । एवं च केवलं वदनमाधुर्यमात्रेण
परकीयं वाक्प्रसरं खण्डयित्वान्तर्दौष्ट्यं करोषीति व्यज्यते । यद्वा प्रीत्यारम्भ एवैतादृशं
त्वया कृतम्, अतोऽग्रे त्वत्संगतिरत्यन्तदुःखदैव भाविनीति नातस्त्वत्संगतिमहं विधास्य
इति व्यज्यते ॥
 
अनासादितनायकरसां सामान्यवनितां सखी वक्ति--
 
आकृष्टिभग्नकटकं केन तव प्रकृतिकोमलं सुभगे ।
धन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ॥ ९८ ॥
 
आकृष्टिरिति । आकृष्ट्या । अवलम्बनेनेत्यर्थः । पक्षे विमर्देन । भग्नं कटकं वलयम् ।
पक्षे सैन्यम् । यस्याः । एवं चावलम्बनमात्रेण भञ्जनार्हत्वप्रतिपादनेन, वलयेऽतितनी-