This page has not been fully proofread.

आरब्धमिति । अमरैर्देवैः । एवं चैतादृशोद्योगशालित्वं युक्तमित्यावेद्यते । यद्द्विजिह्वं
सर्पम् । पक्षे तात्कालिकान्यथावादिनम् । स्वहस्तयित्वा स्वकरे विधाय । पक्षे स्वाधीनी-
कृत्य । अब्धिमथनमारब्धं तस्य परिणाम उचित एव यद्विषमम् । दाहकत्वादिति
भावः । विषं जातमुत्पन्नम् । एवं च यथा द्विजिह्वावलम्बनेन समुद्रमथने विषमभवत्तथा
दुष्टावलम्बनेनारब्धकार्यपरिणामेऽसम्यगेव फलं भावीति व्यज्यते । यथास्थितैवकारयो-
जनं त्वन्यफलोत्पत्तिश्रवणादसमञ्जसम् । यद्वामराणामप्येतादृशावलम्बनपुरःसरारब्ध-
कार्य एतादृशमभवत्तत्र का वार्तान्यस्येति व्यज्यते ॥
 
आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजम् ।
शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ॥ ९३ ॥
 
आवर्जितेति । आवर्जिता संयमिता केशपकिर्यत्र, श्वासैरुत्कम्पौ यौ स्तनौ तयोरर्पित
एको भुजो यत्र, शिथिलमंशुकं यत्र, रत्या विवशा खास्वानधीना तनुर्यस्यास्तस्याः । एवं
च निःसहाङ्गत्वं ध्वन्यते । शयनं स्मरामि । सुरतश्रान्तनायिकाखास्वापवर्णनमेतत् ॥
 
नायको नायिकां वक्ति--
 
आम्राङ्कुरोऽयमरुणश्यामलरुचिरस्थिनिर्गतः सुतनु ।
नवकमठकर्परपुटान्मूर्धेवोर्ध्वं गतः स्फुरति ॥ ९४ ॥
 
आम्रेति । चूताङ्कुरोऽरुणश्यामला रुचिर्दीप्तिर्यस्य । अस्थि कर्कशोपरिभागः । ततो
निःसृतः । हे सुतनु स्फुरति । नवो नूतनो यः कमठस्तस्य यत्कर्परपुटं पृष्ठास्थि तस्मा-
दूर्ध्वं निःसृतो मूर्धेव । एवं चाम्राङ्कुरोत्पत्तिकथनेन, कमठार्भकस्मारणेन, प्रावृट्कालागम-
नोपन्यासेन, नेदानीं ते मानविधानमुचित मिति व्यज्यते । यद्वाम्राङ्कुरोऽयमित्यादिना प्रा-
बृवृट्प्रादुर्भावशंसनेनावश्यं पतिस्ते समायास्यतीति सखी चिरविरहखिन्नां नायिकां समा-
धत्त इत्यर्थः । केचितु व्रीडाकरसंस्थानसादृश्यावधारणेन सामान्यवनितामुपहसति कश्चि-
दित्याहुः । यत्तु नायिकाचित्तव्याक्षेपपरमिदमिति तत्केनापि नायिकाचित्तव्याक्षेपासंपाद-
नाद्वात्स्यायनादिभिरकथनाच्चानुचितमित्याभाति । एवं 'दरफुडिअ' इत्यादिप्राकृतगा-
थापि योज्या ॥
 
कश्चित्कंचित्प्रति वक्ति--
 
ङ्गुराग्रबहुगुणदीर्घास्वादप्रदा प्रियादृष्टिः ।
कर्षति मनो मदीयं हृह्रदमीनं बडिशरज्जुरिव ॥ ९५ ॥
 
आभङ्गुरेति । आभङ्गुराग्रा कुटिलकटाक्षा, बहुगुणा वशीकरणतादिशालिनी । यद्वार्जुन-
कृष्णरक्तरूपशालिनी । दीर्घा कर्णान्ते प्रसरणशीला, आस्वादप्रदा सुखदा, प्रियादृष्टिः ।
पक्षे कुटिलाग्रा, बहुतरसूत्रैर्महत्तरा । यद्वा बहुतन्तुमयी । लम्बायमाना, मधुरवस्तुदात्री ।
एवं च मोचनायोग्यत्वम्, दृढत्वम्, दूरतोऽपि कार्यसंपादकत्वम्, अवश्यं जनलोभनी-