This page has not been fully proofread.

काव्यमाला ।
 
आरब्धमिति । अमरैर्देवैः । एवं चैतादृशोद्योगशालित्वं युक्तमित्यावेद्यते । यद्विजिह्वं

सर्पम् । पक्षे तात्कालिकान्यथावादिनम् । स्वहस्तयित्वा स्वकरे विधाय । पक्षे स्वाधीनी-

कृत्य । अब्धिमथनमारब्धं तस्य परिणाम उचित एव यद्विषमम् । दाहकत्वादिति

भावः । विषं जातमुत्पन्नम् । एवं च यथा द्विजिह्वावलम्बनेन समुद्रमथने विषमभवत्तथा

दुष्टावलम्बनेनारब्धकार्यपरिणामेऽसम्यगेव फलं भावीति व्यज्यते । यथास्थितैवकारयो-

जनं त्वन्यफलोत्पत्तिश्रवणादसमञ्जसम् । यद्वामराणामप्येतादृशावलम्बनपुरःसरारब्ध-

कार्य एतादृशमभवत्तत्र का वार्तान्यस्येति व्यज्यते ॥
 

 
५०
 

 
आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजम् ।
 

शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ॥ ९३ ॥

 
आवर्जितेति । आवर्जिता संयमिता केशपकिर्यत्र, श्वासैरुत्कम्पौ यौ स्तनौ तयोरर्पित

एको भुजो यत्र, शिथिलमंशुकं यत्र, रत्या विवशा खानधीना तनुर्यस्यास्तस्याः । एवं

च निःसहाङ्गत्वं ध्वन्यते । शयनं स्मरामि । सुरतश्रान्तनायिकाखापवर्णनमेतत् ॥

 
नायको नायिकां वक्ति -
 
--
 
आम्राङ्कुरोऽयमरुणश्यामलरुचिरस्थिनिर्गतः सुतनु ।

नवकमठकर्परपुटान्मूर्धेवोर्ध्वं गतः स्फुरति ॥ ९४ ॥

 
आम्रेति । चूताङ्कुरोऽरुणश्यामला रुचिर्दीप्तिर्यस्य । अस्थि कर्कशोपरिभागः । ततो

निःसृतः । हे सुतनु स्फुरति । नवो नूतनो यः कमठस्तस्य यत्कर्परपुटं पृष्ठास्थि तस्मा-

दूर्ध्व निःसृतो मूर्धेव । एवं चाम्राङ्करोत्पत्तिकथनेन, कमठार्भकस्मारणेन, प्रावृट्कालागम-

नोपन्यासेन, नेदानीं ते मानविधानमुचित मिति व्यज्यते । यद्वाम्राङ्कुरोऽयमित्यादिना प्रा-

बृट्प्रादुर्भावशंसनेनावश्यं पतिस्ते समायास्यतीति सखी चिरविरहखिन्नां नायिकां समा-

धत्त इत्यर्थः । केचितु व्रीडाकरसंस्थानसादृश्यावधारणेन सामान्यवनितामुपहसति कश्चि-

दित्याहुः । यत्तु नायिकाचित्तव्याक्षेपपरमिदमिति तत्केनापि नायिकाचित्तव्याक्षेपासंपाद-

नाद्वात्स्यायनादिभिरकथनाच्चानुचितमित्याभाति । एवं 'दरफुडिअ' इत्यादिप्राकृतगा-

थापि योज्या ॥
 

 
कश्चित्कंचित्प्रति वक्ति-
-
 
आमङ्गुराग्रबहुगुणदीर्घावादप्रदा प्रियादृष्टिः ।
 

कर्षति मनो मदीयं हृदमीनं बडिशरज्जुरिव ॥ ९५ ॥
 

 
आभङ्गुरेति । आभङ्गुराग्रा कुटिलकटाक्षा, बहुगुणा वशीकरणतादिशालिनी । यद्वार्जुन-

कृष्णरक्तरूपशालिनी । दीर्घा कर्णान्ते प्रसरणशीला, आस्वादप्रदा सुखदा, प्रियादृष्टिः ।

पक्षे कुटिलाग्रा, बहुतरसूत्रैर्महत्तरा। यद्वा बहुतन्तुमयी । लम्बायमाना, मधुरवस्तुदात्री ।

एवं च मोचनायोग्यत्वम्, दृढत्वम्, दूरतोऽपि कार्यसंपादकत्वम्, अवश्यं जनलोभनी-
Sri Gargeshwari Digital Kumarion