This page has not been fully proofread.

हतचित्ता जातेति भावः । गौडदेशे पृष्ठभागच्छिद्रवता कपर्देन व्यवहरन्ति तदभिप्राये-
णेदम् । यद्वानवेक्षितपृष्ठेन स्वपश्चाद्भागानवलोकनेन । एवं च भीतिशून्यत्वेन विह्वलत्वं
व्यज्यते । जघनांशुकमपि वोढुं नशक्तेन । एवं च विरहक्षीणतया वाससि रूपत्वं
ध्वन्यते । एतादृशेन मुषितास्मि । एवं च तथाविधतदीयासक्तिमालोच्याहमपि तन्नि-
मग्नमनस्का जातास्मीति नायिका वक्तीत्यर्थः । अन्योऽपि चोरः पृष्ठतः समागत्य लुण्ठनं
करोति यथा जघनांशुकमपि न भवतीति लौकिकम् । नशक्तेनेति वचनात्तथा मुषितास्मि
यथा जघनांशुकमपि वोढुमसमर्थैवेत्यवधारणार्थक इवशब्दः ॥
 
प्रणयकोपमवलम्ब्य सुप्तां नायिकां प्रति सखी वक्ति--
 
आकुञ्चितैकजङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।
सुतनोः श्वसितक्रमनमदुदरस्फुटनाभि शयनमिदम् ॥ ८९ ॥
 
आकुञ्चितेति । आकुञ्चितैका जङ्घा यस्मिन्, दरमीषदावृत्त ऊर्ध्वमूरुर्यत्र, गोपितोऽत्य-
न्तमाच्छादितोऽरुर्यत्र, श्वसितक्रमेण नमद्यदुदरं तेन स्फुटा नाभिर्यत्र । क्रियाविशेष-
णान्येतानि । सुतनोरिदं शयनम् । 'स्यान्निद्रा शयनम्' इत्यमरः । एवं च त्वमेवैनां प्रसा-
दयेति व्यज्यते । यद्वा सुरतश्रान्तशयनजातिवर्णनमेतत् ॥
 
सखी गायकं प्रति नायिकासक्तिविशेषमाह--
 
आदाय घनमनल्पं ददानया सुभग तावकं वासः ।
मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्वा ॥ ९० ॥
 
आदायेति । अकल्पं बहु द्रव्यमादाय गृहीत्वा तावकं वासो वस्त्रं ददानया रजकगृहि-
ण्या । एवं च संसारनिर्वाहकत्वं तस्या इति भावः । मुग्धा सुन्दरी, मूढा च । कतिपयै-
र्दिनैर्निःस्वा विगतद्रव्या कृता । एवं च वसनदर्शनमात्रेण धनव्ययमपि न गणयति, तत्र
का वार्ता त्वदङ्गसङ्ग इति व्यज्यते ॥
 
कस्यचिद्दुष्टस्याधिकारदापनाय प्रयत्नशालिनं प्रति कश्चिदन्योक्त्या वक्ति--
 
आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः ।
एतस्मात्फलितादपि केवलमुद्वेगमधिगच्छ ॥ ९१ ॥
 
आस्तामिति । अस्य पूगतरोर्दोहदम् । फलजननार्थमिति भावः । मा रचय । अव-
केशी निष्फलः । 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः । आस्तामिदं वरम् । अत्र हेतुमाह--एतस्मात्फलितात्केवलम् । एवं चान्यफलाभाव इति भावः । उद्वेगमधैर्यादि फलम् ।
क्रमुक इत्युपक्रम्य 'अस्य तु फलमुद्वेगम्' इत्यमरः । अधिगच्छ जानीहि । एवं चैतस्या-
धिकारे संपादिते तवोद्वेग एव भविष्यतीति ॥
 
दुष्टावलम्बनपुरःसरारब्धकार्यस्यावश्यमनर्थजनकत्वमिति कश्चिदन्योक्त्या वक्ति--
 
आरब्धमब्धिमथनं स्वहस्तयित्वा द्विजिह्वममरैर्यत् ।
उचितस्तत्परिणामो विषमं विषमेव यज्जातम् ॥ ९२ ॥