This page has been fully proofread once and needs a second look.

एवं च यथा चामरादिराजचिह्नैः सर्वैरयं राजेति ज्ञायते तथानया मदनोऽयमिति । म-
दनप्रसिद्धिसंपादकत्वेनातिसौन्दर्यादिगुणवत्ता नायिकायामावेद्यते ॥
 
नायको नायिकां वक्ति--
 
आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये ।
इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥ ८६ ॥
 
आक्षिपसीति । हे सुतनु, अक्ष्णा नेत्रेण कर्णे श्रवणम्, राधेयं च । आक्षिपसि स्पृशसि,
तिरस्करोषि च । त्वया बलिरपि त्रिवली । बवयोरैक्यात् । दैत्यश्च । मध्ये त्रिधाबद्धः ।
त्रिधेत्यनेनात्यन्तं निर्जितत्वं द्योत्यते । त्रिवलीवाचकस्य वलिशब्दस्य पुंस्त्वं श्लेषानुरोधा-
न्निरङ्कुशत्वाद्वा । इत्यमुना प्रकारेण जिताः सकला वदान्याः प्रदातारो यया तत्संबुद्धिः ।
तनुदाने शरीरदाने, स्वल्पदाने च । लजसे । एवं चात्यन्तौदार्यशालितया तव तनुदा-
नमपि तनुदानमेवेति ध्वन्यते । तेन चैतद्दाने विलम्बो न विधेय इति भावः ॥
 
कस्यचिदत्यन्तनायिकासक्ति कश्चिद्वक्ति--
 
आक्षेपचरणलङ्घनकेशग्रहकेलिकुतुकतरलेन ।
स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनुः ॥ ८७ ॥
 
आक्षेपेति । आक्षेपस्तिरस्कारः, चरणलङ्घनं चरणाहतिः, केशग्रहः, एतेषां यत्केलि-
कुतुकं तत्र तरलेन समासक्तेन स्त्रीणां पतिर्गुरुरिति धर्मे श्रावितापि न । एवं च साहजि-
कधर्मचर्यायामपि नैतदुदीरितं तत्र नोपदिष्टमिति किमु वाच्यमिति भावः । एवं चैतच्छ्र-
वण आक्षेपादि न विधेयं तयेति भीतिर्ध्वन्यते । तेन चात्यन्तकेलिलम्पटत्वम् । श्वशुरा-
दिसमुच्चायको यथास्थित एवापिशब्द इति ऋजवः ॥
 
नायिका नायकाकस्मिकसङ्गं सखीं वक्ति--
 
आगच्छतानवेक्षितपृष्ठेनार्थी वराटकेनेव ।
मुषितास्मि तेन जघनांशुकमपि वोढुं नशक्तेन ॥ ८८ ॥
 
आगच्छतेति । हे सखि, अनवेक्षितं वीक्षणाभाववद्यत्पृष्ठं तेनागच्छतागमनवता । एवं च
संमुखागमनाभावेन दर्शनाभावो व्यज्यते । पक्षेऽनवेक्षितं पृष्ठं यस्य । आगच्छतेति । हे
सखि, अनवेक्षितं वीक्षणतामप्राप्तेन नायकेन जघनस्य यदंशुकं वासस्तदपि वोढुं मुषितास्म्य-
समर्था प्रतास्मि । एवं चोत्तरीयवसनग्रहणं दूरापास्तमिति भावः । नन्वागमनसमय
एव न कुतो गतं त्वयेत्यत आह - न विद्यते शक्तो यस्मात्तेन । समर्थेनेत्यर्थः । एवं च
ततोऽपसरणमशक्यमिति भावः । यद्वा काक्वा न मुषितास्मि । अपि तु मुषितास्मि ।
पक्षेंऽशुरेवांशुकस्तं किरणमपि वोढुं नशक्तेनासमर्थेन । दृष्टान्तमाह--वराटकेन कपर्दे-
नार्थीव याचक इव । एवं च पश्चाद्भागीयकिरणशून्येन सच्छिद्रेण कपर्देन यथा याचको
मुषितो भवति तथाकस्मिकपश्चादागमनशालिना स्नानावसानसमये जघनांशुकग्रहणेऽपि