This page has not been fully proofread.

आर्यासप्तशती ।
 
४७
 
ल्यखभावादिति भावः । एवं च तदागमने न मम सुखमिति द्योत्यते । मधु मकरन्द

हरति । उन्मादकत्वसंबन्धेन मधुपदेन द्रव्यं लक्ष्यते । एवं च न वास्तवं प्रेम तस्यामिति

ध्वन्यते । मम मनसोऽधिदेवता त्वमेव । कमलस्य श्रीरिव । एवं च मन्मनसि सर्वदा

त्वमेव वससि । सा तु कादाचित्कागमनवतीति न त्वया मयि विधेयः खेद इति द्योत्यते ॥

 
सखी नायिकामुपदिशति-
-
 
आसाद्य दक्षिणां दिशमविलम्बं त्यजति चोत्तरां तरणिः ।
 

पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥ ८३ ॥
 

 
आसाद्येति । दक्षिणां याम्यां दिशमासाद्याविलम्बं शीघ्रं तरणिरुत्तरां दिशं त्यजति ।

प्रकृतं वक्ति । दक्षिणा एव चतुरा एव कान्ताः प्रायेण बाहुल्येन । एवं चैका चतुरापि

न हरति । तथा परक्षान्तिरिति भावः । पुरुषं हरन्ति । एवं च त्वया खचातुर्येणैव

नायकः स्वाधीनताभाजनं विधेय इति व्यज्यते । पक्षे । कर्कटादिषड्राशिसंचरणरूपदक्षिणा-

यने तरणे: क्रमेण सप्तपञ्चाशदष्टपञ्चाशदे कोनषष्टिषष्ट्येकषष्टिचतुर्विंशति विकलासहितैक-

षष्टिकला इत्येवं द्रुतगतिः । मकरादिषड्राशिसंचरणरूपोत्तरायणे क्रमेण चतुर्विंशतिवि-

कलासहितैकषष्टिषष्ट्येकोनषष्ट्यष्टपञ्चाशत्सप्तपञ्चाशत्कला इत्येवं मन्दगतिरिति ज्योतिर्वि-

प्रक्रिया ॥
 

 
कश्चिदन्योक्त्या नायिकां स्तौति -
 
--
 
आदानपानलेपैः काश्चिद्गरलोपतापहारिण्यः ।
 

सदसि स्थितैव सिद्धौषधिवल्ली कापि जीवयति ॥ ८४ ॥
 
·
 

 
आदानेति । काश्चिदौषध्य आदानं मन्त्रपूर्वकं ग्रहणम्, पानं गलाधःकरणम्, लेपः

सर्वाङ्गसंयोगः, एतैर्गरलस्योपतापहरणसामर्थ्याः । काप्यनिर्वचनीया सिद्धौषधिवल्ली

जीवयति । एवंच दूरतोऽपि त्वया दर्शनमवश्यं देयमिति ध्वन्यते । यद्वान्याङ्गनाश्चैला-

चलाकर्षणाधरपानसर्वाङ्गीणालिङ्गनैः संतापापनोदनसमर्थाः । त्वं केवलमवलोकिता

विरहविगतासोरसुप्रदा भवसीति ध्वन्यते । तेन चान्याङ्गनाभ्योऽधिका त्वमिति स्तुति-

ज्यते । यद्वा तस्या दर्शनमात्रेणैवाहं जीवामीति नायिकासखीं प्रत्युक्तिर्नायकस्य ॥

 
नायिकासखी नायकं वक्ति-
-
 
-
 
आन्दोललोलकेशीं चलकाञ्चीकिङ्किणीगणक्चणिताम् ।
 

 

स्मरसि पुरुषायितां तां स्मरचामरचिह्नयष्टिमिव ॥ ८९ ॥

 
आन्दोलेति । आन्दोलनमान्दोलस्तेन चञ्चलालकाम्, चपलमेखलाक्षुद्रघण्टिकासमू-

हस्य क्वणितं शब्दो यस्यास्ताम्, एतादृशीं पुरुषायितां विपरीतरतकारिणीं तां प्रसिद्ध-

गुणां स्मरसीति । काक्का न स्मरसीत्यर्थः । एवं चैतादृशगुणशालिन्यास्तस्या यदि तवा-

नुसंधानं भवेत्तहिं कथमन्यत्रासक्तिसंभावनेति भावः । स्मरस्य चामरचिह्नस्य यष्टिमिव ।
Sri Gurgeshwari Digital Foundation