This page has not been fully proofread.

आदरणीयेति । आदरणीया गुणाः सौन्दर्यादयो यस्याः । पक्षे गुणास्तन्तवः ।
महता मान्येन । पक्ष उन्नतेन । तेन नायकेन । पक्षे सौधेन । शिरसि । पक्षेऽप्रभागे ।
निहितासि । एवं च नायकस्तवाज्ञां सर्वदा करोतीति न तस्यापराध इति भावः ।
तवायं लाघवदोषः । दोषपदेन लाघवे परित्याज्यत्वं द्योत्यते । सौधपताकेव यच्चलस्यस्थि-
रचित्ता भवसि । पक्षे चलनं कम्पः । एवं चैतादृशनायकं प्रति क्रोधादिना चाञ्चल्यकर-
णमनुचितं तवेति ध्वन्यते ॥
 
'एतादृशत्वदीयदर्शनेन ममासक्तिस्त्वय्यत्यन्तं समुदेति' इति कश्चिकांचिद्वक्ति । यद्वा
'त्वया तिरस्कृतस्त्वदर्थमेवाहं तपः करोमि' इति कांचित्कश्चिदाह--
 
आर्द्रमपि स्तनजघनान्निरस्य सुतनु त्वयैतदुन्मुक्तम् ।
खस्थमवाप्नुमिव त्वां तपनांशूनंशुकं पिबति ॥ ८० ॥
 
आर्द्रमिति । आर्द्रमपि । सजलवादिति भावः । पक्षे प्रेमवत्त्वादिति भावः । एवं च
त्यागानर्हवं ध्वन्यते । स्तनजघनान्निरस्य । पक्ष आलिङ्गनाय दत्त्वेत्यर्थः । सुतनु । एवं च
स्पृहणीयत्वमावेद्यते । त्वयोन्मुक्तमेतदंशुकं वस्त्रम् । पर्क्षे ऽशुकमिव । सूक्ष्मत्वादिति भावः ।
एवं च विरहातिशय आवेद्यते । खस्थमन्तरिक्षस्थम् । पक्षे निरवलम्बनम् । एवं च
त्वमेव ममावलम्बनमिति व्यज्यते । त्वामवाप्नुमिव सूर्यकिरणान्पिबति । एवं चाचेतन-
स्याप्यंशुकस्यैतादृशीं त्वामवलोक्यैतादृशी स्पृहा । किमु वाच्यं मादृशस्येति भावः ।
अथवाचेतनांशुकमपि त्वत्समागमाय तपस्तपति । तत्र का वार्ता सचेतनस्य ममेति
भावः । अन्योऽप्यन्तराला वस्थितस्तपनकरपानमात्रेणैव तपस्तपतीति लौकिकम् ॥
 
कश्चित्कस्याश्चिचेष्टां वक्ति--
 
आरोपिता शिलायामश्मेव त्वं स्थिरा भवेति मन्त्रेण ।
मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥ ८१ ॥
 
आरोपितेति । 'अश्मेव त्वं स्थिरा भव' इति मन्त्रेण शिलायामारोपिता स्थापितच-
रणा । परिणयो विवाहस्तद्रूपापत् । दुःखदत्वादिति भावः । आपत्पदं दुःसहत्वमावेदयति ।
तस्या मग्नापि जारमुखं वीक्ष्य हसितैव । एवं चैते मूर्खाः, यत्प्रथमतो मद्विवाहः कृतस्त-
त्रापि स्थिरत्वप्रार्थना क्रियते, नैतावता त्वया भेतव्यमिति ध्वन्यते । यद्वा परमविपत्तौ
पतितापि बहुभिः 'स्थिरा भव' इति प्रार्थितापि जारमुखमवलोक्य हसनेन खस्य चि-
न्ताविहीनत्वं प्रदर्शयति । सा त्वं त्वद्याप्यपरिणीता किमर्थ बिभेषीति काचित्कांचिद्वक्ति ॥
 
अन्याङ्गनागमनखिन्नां नायिकां नायकः समाधत्ते--
 
आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥ ८२ ॥
 
आयातीति । मधुकरीवान्यायात्यागच्छति, याति गच्छति, खेदं करोति । चाश्च-