This page has not been fully proofread.

आर्यासप्तशती ।
 
संतापम् । पक्ष आतपम् । हरसि । एवं च त्वदतिरिक्तान मम गतिरित्यवगत्याहमनुप्राय

इति व्यज्यते ॥

 
कश्चित्कंचित्प्रति वक्ति-
-
 
आज्ञा काकुर्याच्नाक्षेपो हसितं च शुष्करुदितं च ।
 

इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ॥ ७६ ॥

 
आज्ञेति । आज्ञैवं कुर्विति, काकुर्दीनवचनम् । येनोद्दीपनादि भवतीति भावः । या-

च्ञामुकं मह्यं देहीति, आक्षेपः कथमिदं कृतमिति, हसितम् । आनन्दाविर्भावादिति

भावः । शुष्करुदितम् । स्वस्मिन्नसामर्थ्यव्य अनायेति भावः । इति तस्या निधुवनं सुरतं

तत्संबन्धि पाण्डित्यं ध्यायन्न तृप्यामि । एवं चैतादृशकेलिकलाप्रावीण्यमन्यत्र नास्तीति

व्यज्यते । तेन चैतादृशनायिकासुरतध्यानं समुचितमिति ॥
 

 
कांचिन्मानिनीं सखी समाधत्ते-
-
 
आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।

असमयमानिनि मुग्धे मा कुरु भग्नाङ्करं प्रेम ॥ ७७ ॥
 
-
 

 
आज्ञापयिष्यसीति । आज्ञां करिष्यसि । एवं च नायके स्वाधीनता भवित्रीति ध्वन्यते । न

केवलमाज्ञाकारित्वम्, अपितु प्रणिपातप्रवणता तस्य भविष्यतीत्याह – दयितशिरसि पदं

दास्यसि किं त्वरसे । एवं चैतत्क्रमेण विधेयमिति भावः । मुग्धे अत एवासमय मानिनि,

प्रेम भग्नाङ्कुरं मा कुरु । एवं च दृढे प्रेम्णि सर्वमेतादृग्विधानं युक्तमिति प्रीत्या स्वाधी-

नतां नीला पश्चात्कोपकरणमुचितमिति व्यज्यते । अथादौ दासभावं विधाय पश्चाच्च-

रणताडनं विधेयमिति लौकिकोक्तिरपि ॥
 

 
नायकः स्वस्य सखायं वक्ति-
-
 
आसाद्य भङ्गमनया द्यूते विहिताभिरुचितकेलिपणे ।
 

निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः ॥ ७८ ॥

 
आसाद्येति । विहिता अभिरुचिता खेच्छाविषयीभूता या केलिस्तद्रूपः पणो य-

स्मिन् । यस्य पराजयस्तेन जयशालिरुचिविषयीभूतसुरतं देयमेवंरूपपणवतीति भावः ।

द्यूते भङ्गं पराजयं प्राप्यानया नायिकयाक्षान्पाशान्निः सारयतेति कपटरुषा मिथ्या-

कोपेन सख्य उत्सारिता दूरीकृताः । एवं चहेशकीडनं न कदाप्यस्तु । अपसारयन्तु

पाशानिति मिषेण सख्याद्युत्सार्य प्रतिज्ञातकेलिं कुरुष्वेति मां प्रत्यभिव्यञ्जितमिति व्य-

ज्यते । तेन चैतादृशी नान्या चतुरेति भावः ॥
 

 
सखी नायिकामुपदिशति-
-
 
आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वम्

तव, लाघवदोषोऽयं सौधपता केव यच्चलसि ॥ ७९ ॥
 
आ० स० ५
 
F
 
Sri Gargeshwari Digital Foundation