This page has not been fully proofread.

तन्नाशे केदारस्यातिदुःखमिति भावः । यद्वा नायिकान्यादृशचरणविज्ञानेऽप्यखिन्नां सखी-
मपरसखी वक्ति । अन्तरिति । गोपीपदेन नीचत्वं तेन च विनयव्ययेऽपि न तथा खेदार्ह-
त्वमित्यावेद्यते । केदार इत्यनेनाचेतनस्यापि स्वामिनीविनयव्ययेन दुःखवत्ता । तव तु
सचेतनाया नेति महदनुचितमित्यावेद्यते । अत एव गुणपदम् । सहृदयमित्यर्थः ॥
 
परपुरुषरतानामनिवार्यं दौष्ट्यमित्याह कश्चित्--
 
अमुना हतमिदमिदमिति रुदती प्रतिवेशिनेऽङ्गमङ्गमियम् ।
रोषमिषदलितलज्जा गृहिणी दर्शयति पतिपुरतः ॥ ७३ ॥
 
अमुनेति । रुदती । अत एव कोपकपटेन । न वास्तवमित्यर्थः । दलिता विनाशिता
लज्जा यया । अमुना नायकेनेदमिदमङ्गं हतमित्यङ्गमङ्गम् । वक्षःस्थलादिकमित्यर्थः ।
पतिसमक्षम् । पतिपदं रक्षणकर्तृत्वेनाप्रियत्वं ध्वनयति । प्रतिवेशिने जारभूताय । प्रतिवे-
शिपदं निकटवर्तितया स्वदुःखनिवेदनयोग्यत्वं ध्वनयति । गृहिणी । एवं च गृहकर्मव्या-
पृताया अप्येतादृशी गतिस्तत्रान्यवार्ता क्वेति भावः । दर्शयति । पतिपुरतोऽप्येतादृश-
कर्तव्यतानिपुणाः स्त्रियो भवन्तीति सर्वथा न विश्वासस्तासां विधेय इति ध्वन्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेताकारव्रज्या ।
------------------------
 
आकारव्रज्या ।
 
क्वचिदन्यत्र विहितकेलिं 'कथं न मय्यनुरागं दर्शयसि' इति वादिनं नायकं नायिका
वक्ति--
 
आन्तरमपि बहिरिव हि व्यञ्जयितुं रसमशेषतः सततम् ।
असती सत्कविसूक्तिः काचघटीति त्रयं वेद ॥ ७४ ॥
 
आन्तरमिति । आन्तरमपि । इत्यपिना बहिर्व्यञ्जनेऽतिकाठिन्यमावेद्यते । रसं रागम्,
शृङ्गारादिकम्, द्रवद्रव्यं च । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यभिधानात् ।
हि इति निश्चयेन । अशेषतो बहिरिव । व्यञ्जयितुं प्रकटीकर्तुम् । असती पुंश्चली, स-
त्कवेः सूक्तिः, काचघटी, इति त्रयं सततं वेद । एवं च नास्माकं बहिरङ्गरागप्रकटनज्ञा-
नमित्यावेद्यते । तेन च यत्रैव बहिरङ्गानुरागज्ञापनसामर्थ्यं तत्रैव गच्छेति । प्रसादरूप -
गुणवत्त्वादेव सत्काव्यत्वमिति वक्तीति कश्चित् ॥
 
कश्चिन्नायिकां वक्ति--
 
आलोक एव विमुखी क्वचिदपि दिवसे न दक्षिणा भवसि ।
छायेव तदपि तापं त्वमेव मे हरसि मानवति ॥ ७
 
आलोक एवेति । आलोक एव दर्शन एव । पक्षे प्रकाश एव विमुखी । एवं चालि-
ङ्गनादौ किं करिष्यसीति न विद्म इति भावः । क्वचिदपि कस्मिंश्चिदपि दिवसे दक्षिणा-
नुकूलगामिनी । मानवति मानिनि । पक्षे परिमाणवति । तदपि त्वमेव मे छायेव तापं