This page has not been fully proofread.

आर्यासप्तशती ।
 
४३
 
अभिनवेति । अद्भुतसुरतंश्रान्ता बाला । एवं च कोमलाङ्गीत्वमावेद्यते । क्रमेण ।
कपोलाद्यङ्गक्रमेणेत्यर्थः । घर्माम्भः कलयति । ज्यां मौर्वीमर्पयितुम् । सज्यां कर्तुमित्यर्थः ।
नमिता कुसुमास्त्रस्य मदनस्य धनुर्लता मकरन्दमिव । एवं च यथा यथा सुरतविशेषा-
रम्भस्तथैतस्याः श्रमातिशयः । अतो मध्ये मध्ये विश्रान्तिर्देयेति ध्वन्यते । तेन च किं-
चित्कालं तूष्णीभवस्थित्या पुनः पूर्ववद्दार्ढ्य तेभावीति द्योत्यते । यद्वा ज्यामर्पयितुमित्या-
दिदृष्टान्तव्याजेन सुखादिदानप्रवृत्तेन त्वया नैतस्याः श्रमो गणनीय इति व्यज्यते । अथवा
मदनधनुर्लताया यथा नमनकाले मधुबिन्दूगिरणं स्वाभाविकं तथैतस्याः सुरतकालीनखे-
दाभ्यः स्वाभाविकम् । अतो न मनसि त्वयैतस्याः श्रमवत्ता संभावनीयेति द्योत्यते ॥
कश्चन विरही वक्ति-
• असती कुलजा धीरा प्रौढा प्रतिवेशिनी यदासक्तिम् ।
कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥ ७० ॥
 
असतीति । असती । इत्यनेन स्वनिष्ठप्रेमशालित्वमावेद्यते । वंशजा कुलजा । इत्यनेन
स्थिरप्रेमवत्त्वमावेद्यते । धैर्यवती धीरा । इत्यनेन स्थिरस्वभाववत्त्वम् । तेनापि तदेव ।
प्रौढा । इत्यनेन स्वतन्त्रत्वं तेन च संकेतकरणसमर्थत्वम् । प्रतिवेशिनी । इत्यनेन तदेव ।
रसशालिन्यासक्तिं यदा कुरुते तदा ब्रह्मानन्दं तृणं मन्ये । एवं चैतादृशनायिका
ब्रह्मानन्दवदप्राप्येत्यर्थः ॥
 
चिरविरहखिन्नां नायिकां नायको वक्ति-
अविरलपतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतमिदम् ।
शतधौतमाज्यमिव मे स्मरशरदाहव्यथां हरति ॥ ७१ ॥
अविरलेतिं । अविरलपतिताश्रु । चिरकालीनदर्शनादिति भावः । पक्षे जलसंबन्धा-
दिति भावः । पाण्डु । विरहादिति भावः । पक्ष उज्ज्वलरूपम् । स्निग्धं स्नेहशालि ।
पक्षे खाभाव्यादिति भावः । उपनीतं समीपदेशे प्रापितं वपुः शतधौताज्यमिव मे स्मर-
शरदाहव्यथां हरति । एवं च यथा जीर्णज्वरादेर्नाशकं शतवारक्षालितं घृतं तथा त्वद्वपु.
र्मम चिरकालीनसंतापापनोदकम् । अतः समालिङ्गय मामिति ध्वन्यते ॥
एतस्याः संभोगस्थानं केदार एवेति कश्चिद्वक्ति-
अन्तर्निपतितगुञ्जागुणरमणीयश्चकास्ति केदारः ।
निजगोपीविनयव्ययखेदेन विदीर्णहृदय इव ॥ ७२ ॥
 
अन्तरिति । अन्तर्निपतिता गुञ्जाश्च गुणश्च तै रमणीयः सुन्दरः । यद्वा गुञ्जारूपो
यो गुणः । शोभोत्कर्षजनकत्वादिति भावः । संभोगादिना गुआहारत्रुटना दिति
भावः । केदारश्चकास्ति । निजा या गोपनकर्त्री । एवं च खेदौचित्यं योयते । तस्या
विनयविनाशेन यद्दुःखं तेन विदीर्णहृदय इव । निपतितगुञ्जानामारक्तत्वादिति भावः
यथा खपालकस्य मुख्यवस्तुविनाशे सेवकस्य दुःखं भवति, तथा विनयस्यातिमुख्यत्वेन
 
Sri Gurgeshwari Digital Foundation