This page has been fully proofread once and needs a second look.

अन्तर्भूत इति । जडे । मूर्खत्वात् । पक्षे जलरूपत्वात् । जडो मूर्खः । पक्षे पशुत्वात् ।
अन्तर्भूतः । परैर्विशिष्याज्ञायमान इत्यर्थः । निवसति । शिशिरमहसि चन्द्रे हरिण इव ।
अजडे पण्डिते । स तु मूर्खस्तु । पक्षेऽजडे तेजोरूपत्वादिति भावः । तपने शशीव
प्रविष्टोऽपि कुहूदिने चन्द्रमण्डलस्य सूर्यान्तर्हितत्वमिति ज्योतिर्वित्प्रसिद्धिः । निःसरति
दूरीभवति । शीघ्रमेवेति भावः ॥
 
दूती 'नायिका त्वय्यासक्ता' इति वैद्यं वक्ति--
 
अगणितजनापवादा त्वत्पाणिस्पर्शहर्षतरलेयम् ।
आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ॥ ६७ ॥
 
अगणितेति । न गणिता जननिन्दा यया । एवं च वैद्यस्य तथाविधत्वेन प्रसिद्धिरि-
त्यावेद्यते । त्वत्पाणिना स्पर्शः । नाडीप्रदर्शनार्थमिति भावः । तेन यो हर्षस्तदर्थे चञ्चला।
एवं च संभोगसुखार्थे किं करिष्यतीति न विद्म इति ध्वन्यते । आयास्यतो ज्वरस्या-
गामिज्वरस्य चातुर्थिकादेस्तल्पं वराकी । एवं च कृपार्हलं व्यज्यते । प्रकल्पयति ।
एवं चोत्साहविशेषवत्ता द्योत्यते । नाडीविलोकनार्थे त्वदागमननिर्णयेन ज्वरागमनदु:-
खमपि न तया गण्यत इत्यासक्तिविशेषो ध्वन्यते ॥
 
एकवंशजन्यत्वेऽपि धनवत्तयैव प्रभुतेति कश्चिद्वक्ति । यद्वैकवंशजन्यत्वेऽपि कस्यचि
त्समृद्धिः कस्यचिन्न कश्चित्प्रधानं कश्चिद्गुणीभूत इति विधातुः सृष्टिर्विचित्रेति नात्र
क्लेशादि विधेयमिति कंचन कश्चित्समाधत्ते--
 
अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छताभाजोः ।
ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि भर्ता ॥ ६८ ॥
 
अप्येकेति । एकवंशजयोरपि । वंशो वेणुः । पक्षे कुलम् । 'कुलत्वक्सारौ वंशौ
इत्यभिधानात् । एकपदेन कारणैक्याद्वैलक्षण्यानर्हत्वं ध्वन्यते । पूर्णत्वं स्थूलावयववत्त्वम् ।
पक्षे समृद्धत्वम् । तुच्छत्वं सूक्ष्मत्वम् । पक्षे निर्धनत्वम् । तद्वतोर्ज्याकार्मुकयोः । अत्र
'अल्पाच्तरम्' इत्यनेन ज्याशब्दस्य पूर्वनिपातः । कश्चिज्ज्यारूपो गुणभूतः । कश्चि-
त्कार्मुकरूपो भर्ता । 'ज्याप्रधानौ गुणौ,' 'धातृपोष्टारौ भर्तारौ' इत्यभिधानात् । इदं
पश्यत । एवं चैकवंशजत्वेऽपि यस्मिन्पूर्णत्वं स एव भर्ता, नान्य इति व्यज्यते । यद्वै-
कवंशजन्यत्वेऽपि दैवाधीनतया कस्यचित्समृद्धिप्रभुत्वे कस्यचिदसमृद्धत्वाप्रधानत्वे इति
नात्र खेद उचित इति ध्वन्यते । अथवाचेतनेऽपि गुणप्राधान्येनैव लक्षाप्तिः । अतो भव-
द्भिरप्यनयैव रीत्या स्थेयम् । न तु सर्वप्राधान्येनेति परस्पराहंकारशालिनां समाधान-
मिदम् ॥
 
नायिकासहचरी नायकं वक्ति--
 
अभिनवकेलिक्लान्ता कलयति बाला क्रमेण घर्माम्भः ।
ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्लतेव मधु ॥ ६९ ॥