2023-03-08 15:54:26 by Pathan Vali Khan
This page has not been fully proofread.
अतीति । अत्युत्कण्ठया । एवं च पुरोवर्तित्वेन दर्शनयोग्यत्वं ध्वन्यते । वृतिविवरेण
भित्तिच्छिद्रेण । एवं च सूक्ष्मत्वं व्यज्यते । सदनम् । नायिकाधिष्ठितमिति भावः ।
प्रवेशितो भुजो दयितास्पर्शेनोल्लसितः पुष्टिमापनस्तेन मार्गेण नागच्छति । यद्वातिस-
रलतया गुप्तव्यवहारेण नायिकासदनं प्रापितः । एवं च स्वस्य श्रमबाहुल्यं व्यज्यते ।
तत्सुखोल्लसितः । एवं च तदासक्तिविशेषो ध्वन्यते । तेन मार्गेण नागच्छति । एवं च
महता श्रमेण नायिकां प्रापितोऽयं तदासक्त्या मामगणयित्वैव नायाति । परंतु नैतदुचि-
तमिति व्यज्यते । इति दूती वक्ति । यद्वात्युत्कण्ठया । एवं चाग्रे किं भविष्यतीति
विचारशून्यत्वं ध्वन्यते । वृतिविवरेण चौरादिमार्गेणापि सदनं प्रवेशितः । एवं च स्वत-
स्तथाविधधूर्तताविहीन इति व्यज्यते । दयितास्पर्शोल्लसित इत्यनेन तत्र चिरकालावस्था-
यित्वं द्योत्यते । अयं भुजो हस्तरूपः । एवं च परप्रेरणया कार्यकारित्वमावेद्यते । तेन
मार्गेण नागमिष्यति । एवं चातिविलम्बकरणेन येन मार्गेणायमागतस्तेन मार्गेण गन्तु-
मधुना प्रतिबन्धकवशान्न पार्यते । अतस्त्वमेनं कयापि गत्या निःसारयेति नायिकासखीं
नायकसखी वक्ति ॥
नायको नायिकां प्रति वक्ति--
अम्बरमध्यनिविष्टं तवेदमतिचपलमलघु जघनतटम् ।
चातक इव नवमभ्रं निरीक्षमाणो न तृप्यामि ॥ ६४ ॥
अम्बरेति । अम्बरमाकाशं वसनं वा । 'अंशुके व्योम्नि चाम्बरम्' इत्यमरः । तन्मध्य-
वर्ति । अतिचपलं रतव्यापारविशेषत्वात् । पक्षे स्वभावात् । अलघु महत् । तवेदं जघ-
नतटं नवमभ्रं मेघं चातक इव निरीक्षमाणो न तृप्यामि । एवं च चिरतरपिपासाव्या-
कुलस्य चातकस्य नूतनमेघदर्शनेन तृप्तिस्तथातिविरहखिन्नस्य मम तव जघनदर्शनेन तृप्ति-
रिति व्यज्यते । तेन चात्यन्तस्पृहावानहमस्मीति व्यज्यते ॥
अयमन्धकारसिन्धुरभाराक्रान्तावनीभराक्रान्तः ।
उन्नतपूर्वाद्रिमुखः कूर्मः संध्यास्त्रमुद्वमति ॥ ६९ ॥
अयमिति । अन्धकाररूपा ये सिन्धुरा गजास्तद्भारेणाक्रान्ता या मही तस्या भरेणा-
क्रान्तः । उन्नतं पूर्वाचलरूपं मुखं यस्य सः । पृष्ठे भारातिशयेन मुखौन्नत्यमिति भावः ।
कूर्मः संध्यारूपं रुधिरमुद्वमति । अन्यस्याप्यत्यन्तभारवत्तया मुखाल्लोहितं निःसरतीति
लौकिकम् । एवं च प्रातःकालो वृत्तः, उपपतिर्निःसार्यतामिति सखी नायिकां वक्ति ।
यद्वा कूर्मोऽयं संध्यारूपं रुधिरं वमतीत्युक्त्या संध्योदयापलापो द्योत्यते । नायिका चेयं
रतिप्रीतिमती तस्या एवोक्तिर्नायकं प्रति । प्रातःकालीनरतावसरे नायिका नायकचित्तं
व्याक्षिपतीति ऋजवः ॥
मूर्खेष्वेव मूर्खसमावेशः, न पण्डितेष्विति कश्चिद्वक्ति--
अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव ।
अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥ १६ ॥