This page has not been fully proofread.

आर्यासप्तशती ।
 
४१
 
अतीति । अत्युत्कण्ठया । एवं च पुरोवर्तित्वेन दर्शनयोग्यत्वं ध्वन्यते । वृतिविवरेण

भित्तिच्छिद्रेण । एवं च सूक्ष्मत्वं व्यज्यते । सदनम् । नायिकाधिष्ठितमिति भावः ।

प्रवेशितो भुजो दयितास्पर्शेनोल्लसितः पुष्टिमापनस्तेन मार्गेण नागच्छति । यद्वातिस-

रलतया गुप्तव्यवहारेण नायिकासदनं प्रापितः । एवं च स्वस्प श्रमबाहुल्यं व्यज्यते ।

तत्सुखोल्लसितः । एवं च तदासक्तिविशेषो ध्वन्यते । तेन मार्गेण नागच्छति । एवं च

महता श्रमेण नायिकां प्रापितोऽयं तदासक्त्या मामगणयित्वैव नायाति । परंतु नैतदुचि-

तमिति व्यज्यते । इति दूती वक्ति । यद्वात्युत्कण्ठया । एवं चाग्रे किं भविष्यतीति

विचारशून्यत्वं ध्वन्यते । वृतिविवरेण चौरादिमार्गेणापि सदनं प्रवेशितः । एवं च खत-

स्तथाविधधूतताविहीन इति व्यज्यते । दयितास्पर्शोल्लसित इत्यनेन तत्र चिरकालावस्था-

यित्वं द्योत्यते । अयं भुजो हस्तरूपः । एवं च परप्रेरणया कार्यकारित्वमावेद्यते । तेन

मार्गेण नागमिष्यति । एवं चातिविलम्बकरणेन येन मार्गेणायमागतस्तेन मार्गेण गन्तु-

मधुना प्रतिबन्धकवशान्त्र पार्यते । अतस्त्वमेनं कयापि गत्या निःसारयेति नायिकासखीं

नायकसखी वक्ति ॥
 

 
नायको नायिकां प्रति वक्ति -
 
-
 
अम्बरमध्यनिविष्टं तवेदमतिचपलमलघु जघनतटम् ।

चातक इव नवमभ्रं निरीक्षमाणो न तृप्यामि ॥ ६४ ॥
 

 

 
अम्बरेति । अम्बरमाकाशं वसनं वा । 'अंशुके व्योनि चाम्बरम्' इत्यमरः । तन्मध्य-

वर्ति । अतिचपलं रतव्यापारविशेषत्वात् । पक्षे स्वभावात् । अलघु महत् । तवेदं जघ-

नतटं नवमभ्रं मेघं चातक इव निरीक्षमाणो न तृप्यामि । एवं च चिरतरपिपासाव्या-

कुलस्य चातकस्य नूतनमेघदर्शनेन तृप्तिस्तथातिविरहखिन्नस्य मम तव जघनदर्शनेन तृप्ति-

रिति व्यज्यते । तेन चात्यन्तस्पृहावानहमस्मीति व्यज्यते ॥
 

 

 
अयमन्धकारसिन्धुरभाराक्रान्तावनीभराक्रान्तः

उन्नतपूर्वाद्रिमुखः कूर्मः संध्यास्त्रमुद्वमति ॥ ६९ ॥
 

 
अयमिति । अन्धकाररूपा ये सिन्धुरा गजास्तद्भारेणाकान्ता या मही तस्या भरेणा-

क्रान्तः । उन्नतं पूर्वाचलरूपं मुखं यस्य सः । पृष्ठे भारातिशयेन मुखौन्नत्यमिति भावः ।

कूर्मः संध्यारूपं रुधिरमुद्वमति । अन्यस्याप्यत्यन्तभारवत्तया मुखाल्लोहितं निःसरतीति

लौकिकम् । एवं च प्रातःकालो वृत्तः, उपपतिर्निःसार्यतामिति सखी नायिकां वक्ति ।

यद्वा कूर्मोऽयं संध्यारूपं रुधिरं वमतीत्युक्त्या संध्योदयापलापो द्योत्यते । नायिका चेयं

रतिप्रीतिमती तस्या एवोक्तिर्नायकं प्रति । प्रातःकालीनरतावसरे नायिका नायकचित्तं

व्याक्षिपतीति ऋजवः ॥
 

 
मूर्खेष्वेव मूर्खसमावेशः, न पण्डितेष्विति कश्चिद्वक्ति-
-
 
अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव ।

अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥ १६ ॥
 
-
 
DF
 
Sri Gurgeshwari Digital Foundation